SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३१० स्वोपज्ञलघुवृत्तिविभूषितं वोपकादेः ।६।११३०॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य य: स प्रत्ययः तस्याऽस्त्रियां लुप् वा स्यात् । उपका: , औपकायना: ; लमका: , लामकायना: ॥१३०॥ तिककितवादी द्वन्द्वे ।६।१।१३१॥ एषु द्वन्द्वेषु बहुगोत्रार्थेषु य: स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । तिककितवा: , उजककुभाः ॥१३१|| द्रयादेस्तथा ।६।१११३२॥ द्रयादिप्रत्ययान्तानां द्वन्द्वे बह्वर्थे य: स व्यादिः तस्य लुप् स्यात् , तथा यथा पूर्वम् । वृक-लोहध्वज-कुण्डीवृसाः । तथेति किम् ? गार्गी-वत्स-वाजा: । तत्राऽस्त्रियामित्युक्ते गार्गीत्यत्र न स्यात् ॥१३२॥ वाऽन्येन ।६।१११३३॥ द्रयादेरन्येन सह व्यादीनां द्वन्द्वेबह्वर्थे यः स व्यादिस्तस्य तथा वा लुप् स्यात् , यथा पूर्वम् । अङ्ग-वङ्ग-दाक्षयः , आङ्ग-वाङ्ग-दाक्षयः ।।१३३।। द्वयेकेषु षष्ठयास्तत्पुरुष यज्ञादेर्वा ।६।११३४॥ षष्ठीतत्पुरुषे यत् पदं षष्ठया विषये द्वयोरेकस्मिंश्च स्यात् तस्य य: स यज्ञादिः तस्य तथा वा लुप् स्यात् । गर्गकुलम् , गार्ग्यकुलम् ; विदकुलम् , वैदकुलम् द्वयेकेष्विति किम् ? गर्गाणां कुलं गर्गकुलम् ।।१३४।। न प्राजितीये स्वरे ।६।१।१३५॥ यस्कादेगोत्रे [६।१११२५] इत्यादिना या लुबुक्ता सा प्राजितीयेऽर्थे यः स्वरादिस्तद्धितः तद्विषये न स्यात् । गार्गीयाः , आत्रेयीयाः । प्राजितीय इति किम् ? अत्रीयः । स्वर इति किम् ? गर्गमयम् ॥१३५।। गर्ग-भार्गविका।६।१।१३६॥ इयं द्वन्द्वात् प्राग्जितीये विवाहे योऽकल् तस्मिन्नणो लुबभावे स्यात् । गर्गभार्गविका ॥१३६।। यूनि लुप् ।६।११३७॥ यून्युत्पन्नस्य प्रत्ययस्य प्राजितीयेऽर्थे स्वरादौ प्रत्यये विषयभूते लुप् स्यात् , लुपि सत्यां य: प्राप्नोति स स्यात् । पण्टाहृतस्यापत्यं पाण्टाहति: , तस्यापत्यं १. वृशाः इति J बृहद्वृत्तौ । K बृहद्वृत्तौ विशः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy