SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कुरोर्वा |६|१|१२२॥ कुरोर्द्रेर्न्यस्य स्त्रियां लुप् वा स्यात् । कुरू: अपत्यम्, कौरव्यायणी ॥१२२॥ रञणोsप्राच्य भर्गादः | ६|१|१२३ ॥ - प्राच्यान् भर्गादींश्च मुक्त्वाऽन्यस्मादञोऽणश्च द्रेः स्त्रियां लुप् स्यात् । शूरसेनी अपत्यम्, एवं मद्री । प्राच्यादिवर्जनं किम् ? पाञ्चाली, भार्गी ॥ १२३ ॥ बहुष्वस्त्रियाम् । ६।१।१२४॥ द्रयन्तस्य बह्वर्थस्य यो द्रिस्तस्याऽस्त्रियां लुप् स्यात् । पञ्चाला राजानोऽपत्यानि वा । अस्त्रियामिति किम् ? पाञ्चाल्यः || १२४|| यस्का | ६ | १|१२५॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादेर्यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । यस्का:, लह्या: । गोत्र इति किम् ? यास्का: छात्राः || १२५|| यञञोश्यापर्णान्त गोपवनादेः | ६ | १|१२६ ॥ यञञन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात्, न तु श्यापर्णान्तेभ्यो गोपवनादिभ्यः । गर्गाः विदाः । अश्यापर्णेत्यादि किम् ? गौपवनाः ||१२६|| , कौण्डिन्या - ssगस्त्ययोः कुण्डिना - ऽगस्ती च | ६|१|१२७॥ अनयोर्बहुगोत्रार्थयोर्यञोऽणश्चाऽस्त्रियां लुप् स्यात् ३०९ Jain Education International " कुण्डिना sगस्ती चाss देशौ । कुण्डिनाः, अगस्तयः || १२७|| भृग्वङ्गिरस्-कुत्स- वशिष्ठ गोतमा - ऽत्रेः । ६।१।१२८ ॥ कुण्डिन्यगस्त्ययोः एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । भृगवः, अङ्गिरसः, कुत्सा:, वशिष्ठा:, गोतमा:, अत्रयः || १२८|| प्राग्भरते बहुस्वरादिञः | ६|१|१२९ ॥ For Private & Personal Use Only बहुस्वराद् य इञ् तदन्तस्य बहुप्राग्गोत्र - भरतगोत्रार्थस्य यः स प्रत्ययः तस्याऽस्त्रियां लुप् स्यात् । क्षीरकलम्भाः उद्दालकाः । प्राग्भरत इति किम् ? बालाकयः । बहुस्वरादिति किम् ? चैतयः || १२९।। " १. कुण्डिन्यागस्त्ययो: J1, 3, पासं२ ॥ www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy