SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं राष्ट्र-क्षत्रियार्थाभ्यां सरूपाभ्यां यथासङ्ख्यं राजा -ऽपत्ययोरञ् स्यात्, स च द्रिः । विदेहा राजानः, अपत्यानि वा । सरूपादिति किम् ? सौराष्ट्रको राजा ॥११४॥ ३०८ गान्धारि - साल्वेयाभ्याम् | ६|१|११५ ॥ आभ्यां राष्ट्र-क्षत्रियार्थाभ्यां सरूपाभ्यां यथासङ्ख्यं राज्ञ्यपत्ये च द्रिरञ् स्यात् । गान्धारयः, साल्वेया राजानोऽपत्यानि वा ॥ ११५ ॥ पुरु- मगध कलिङ्ग - सूरमस-द्विस्वरादण् | ६| १|११६ ॥ एभ्यो द्विस्वरेभ्यश्च राष्ट्र- क्षत्रियार्थेभ्य: सरूपेभ्यो यथासङ्ख्यं राज्ञ्यपत्ये च द्रिरण् स्यात् । पुरोरपत्यं पौरवः, मागधो राजाऽपत्यं वा एवं कालिङ्गः सौरमसः, आङ्गः ॥ ११६॥ , साल्वांश-प्रत्यग्रथ-कलकूटाऽश्मकादिञ् ।६।१।११७॥ साल्वा जनपदः, तदंशेभ्यः प्रत्यग्रथादेश्व सरूपराष्ट्र - क्षत्रियार्थेभ्यो यथासंख्यं राज्ञ्यपत्ये च द्रिरिञ् स्यात् । औदुम्बरिः राजाऽपत्यं वा, एवं प्रात्यग्रथिः कालकूटि:, आश्मकिः ||११७|| दु-नादि - कुर्वित्- कोशला - ऽजादाञ्यः | ६|१|११८॥ 7 दुभ्यो नादेः कुरोरिदन्तेभ्यः कोशला - ऽजादाभ्यां च सरूपराष्ट्र-क्षत्रियेभ्यो यथासंख्यं राज्ञ्यपत्ये च द्रिः स्यात् । आम्बष्ठयो राजाऽपत्यं वा एवं नैषध्यः " कौरव्यः, आवन्त्यः, कौशल्यः, आजाद्यः ॥ ११८ ॥ पाण्डोयण् ।६।१।११९॥ , पाण्डो राष्ट्र - क्षत्रियार्थात् सरूपाद् यथासंख्यं राज्ञ्यपत्ये च द्रियण् स्यात् । पाण्ड्यो राजाऽपत्यं वा ॥ ११९ ॥ शकादिभ्यो द्रेर्लुप् ।६।१।१२०॥ एभ्यः परस्य द्विसंज्ञस्य लुप् स्यात् । शको राजाऽपत्यं वा एवं यवनः , ॥१२०॥ Jain Education International " कुन्त्यवन्तेः स्त्रियाम् |६|१|१२१॥ , आभ्यां परस्य द्रेर्न्यस्य लुप् स्यात् स्त्रियामर्थे । कुन्ती अपत्यम् एवम् अवन्ती । स्त्रियामिति किम् ? कौन्त्यः || १२१ || For Private & Personal Use Only , www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy