________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
३०७
एभ्य: सौवीरवृद्धवृत्तिभ्यो यूनि ईयेकणौ वा स्यातां निन्दायाम्। सौयामायनीय: ; सौयामायनिक: , सौयामायनिर्वा निन्द्यो युवा ; एवं यामुन्दायनीय: , यामुन्दायनिकः , यामुन्दायनिर्वा ; वार्ष्यायणीयः , वार्ष्यायणिक: , वार्ष्यायणिर्वा ॥१०६।।
तिकादेरायनिञ् ।६।११०७॥ । एभ्योऽपत्ये आयनिञ् स्यात् । तैकायनि: , कैतवायनिः ॥१०७||
दगु-कोशल-कर्मार-च्छाग-वृषाद् यादिः ।६।१११०८॥ एभ्योऽपत्ये यादिरायनिञ् स्यात् । दागव्यायनि: , कौशल्यायनि: , कार्मार्यायणिः , छाग्यायनि: , वार्ष्यायणिः ॥१०८॥
द्विस्वरादणः ।६।१।१०९॥ द्विस्वरादणन्तादपत्ये आयनिञ् स्यात् । कार्त्तायणिः ॥१०९।।
अवृद्धाद् दोर्नवा ।६।११११०॥ अवृद्धार्थाद् दोरपत्ये आयनिञ् वा स्यात् । आम्रगुप्तायनि: , आम्रगुप्ति: ॥११०॥
पुत्रान्तात् ।६।१११११॥ पुत्रान्ता दोरपत्ये वा आयनिञ् स्यात् । गार्गीपुत्रायणि: , गार्गीपुत्रिः ॥११शा ।
चर्मि-वर्मि-गारेट-कार्कट्य-काक-लङ्का-वाकिनाच्च कथान्तोऽन्त्य स्वरात् ।६।१।११२॥
एभ्यः पुत्रान्ताच दोरपत्ये आयनिञ् वा स्यात् , तद्योगे कश्चान्तोऽन्त्यस्वरात् | चार्मिकायणिः , चार्मिण: ; वार्मिकायणि: , वार्मिण: ; गारेटकायनि: , गारेटि: ; कार्कटयकायनि: , कार्कट्यायन: ; काककायनि: , काकि: ; लाङ्काकायनि: , लाङ्केय: ; वाकिनकायनि: , वाकिनि: ; गार्गीपुत्रकायणि: , गार्गीपुत्रिः ॥११२॥
अदोरायनिः प्रायः ।६।१११३॥ अदोरपत्ये आयनिर्वा प्राय: स्यात् । ग्लुचुकायनि: , ग्लौचुकिः । प्राय: किम् ? दाक्षिः ॥११३॥
राष्ट्र-क्षत्रियात् सरूपाद् राजा-ऽपत्ये दिरञ्।६।१।११४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org