SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं आभ्यां काश्यपेऽपत्ये एयण् स्यात् । वैकर्णेयः , कौषीतकेय: काश्यपः ॥७५।। भ्रुवो ध्रुव च ।६।११७६॥ भ्रुवोऽपत्ये एयण् स्यात् , ध्रुवश्च भ्रुत् । भ्रौवेयः ॥७६।। कल्याण्यादेरिन् चाऽन्तस्य ।६।११७७।। एभ्योऽपत्ये एयण् स्यात् , अन्तस्य चेन् । काल्याणिनेयः , सौभागिनेयः ॥७७॥ कुलटाया वा ।६।११७८॥ अस्मादपत्ये एयण् स्यात् , तद्योगे चान्तस्येन् वा । कौलटिनेयः , कौलटेय: ॥७८॥ चटकाण्णैरः , स्त्रियां तु लुप् ।६।१।७९॥ अस्मादपत्ये गैर: स्यात् , स्त्र्यर्थस्य च गैरस्य लुप् । चाटकैर: , चटका: ॥७९॥ क्षुद्राभ्य एरण् वा ।६।११८०॥ अङ्गहीना अनियतपुंस्का वा स्त्रिय: क्षुद्रा: , क्षुद्रार्थेभ्यः स्त्रीभ्य एरण् वा स्यात् । काणेर: , काणेयः ; दासेरः , दासेयः ।।८।। गोधाया दुष्टे णारश्च ।६।१८१॥ गोधाया दुष्टेऽपत्ये णार एरण च स्यात् । गौधारः , गौधेरो गोधायामहिजात: ॥८१।। जण्ट-पण्टात् ।६।१।८२॥ आभ्यामपत्ये णार: स्यात् । जाण्टारः , पाण्टारः ।।८२।। . चतुष्पाद्य एयञ्।६।१।८३॥ चतुष्पाद्वाचिभ्योऽपत्ये एयञ् स्यात् । कामण्डलेयः ।।८३।। गृष्टयादेः ।६।११८४॥ एभ्योऽपत्ये एयञ् स्यात् । गार्टेयः , हार्टेयः ।।८४|| वाडवेयो वृषे ।६।१८५॥ वडवाया वृषेऽर्थे एयञ् एयण् वा निपात्यते । वाडवेयः ॥८५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy