________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
सङ्ख्या-सं-भद्रान्मातुर्मातुर्च ।६।१६६॥ सङ्ख्यार्थात् सम्भद्राभ्यां च परो यो माता , तदन्तादपत्येऽण् स्यात् , मातुश्च मातुर् । द्वैमातुरः , सामातुरः , भाद्रमातुरः ।।६६।।
अदोर्नदी-मानुषीनाम्नः ।।१६७॥ अदुसंज्ञानदीनाम्नो मानुषीनाम्नश्वापत्येऽण् स्यात् । यामुन: प्रणेता , दैवदत्त: । अदोरिति किम् ? चान्द्रभागेय: ॥६७||
पीला-साल्वा-मण्डूकाद् वा ।६।११६८॥ एभ्योऽपत्येऽण् वा स्यात् । पैल: , पैलेय: ; साल्व: , साल्वेय: ; माण्डूक: , माण्डूकिः ॥६८॥
दितेश्चैयण् वा ।६।१।६९॥ दितेर्मण्डूकाचाऽपत्ये एयण् वा स्यात् । दैतेयः , दैत्यः ; माण्डूकेय: , माण्डूकि: ॥६९||
याप्-त्यूङः ।६।११७०॥ ड्यन्ताद् आबन्तात् त्यन्ताद् ऊङन्ताचापत्ये एयण् स्यात् । सौपर्णेय: , वैनतेयः , यौवतेयः , कामण्डलेय: ।।७०॥
द्विस्वरादनद्याः ।६।१७॥ द्विस्वराद् ङ्याप्-त्यूङन्तादनद्यर्थादपत्ये एयण् स्यात् । दात्तेयः । अनद्या इति किम् ? सैप्रः ॥७॥
इतोऽनिञः ।।१७२॥ इन्वर्जेदन्ताद् द्विस्वरादपत्ये एयण् स्यात् । नाभेय: । अनिञ इति किम् ? दाक्षायण: । द्विस्वरादित्येव-मारिचः ॥७२।।
शुभ्रादिभ्यः ।६।११७३॥ एभ्योऽपत्ये एयण् स्यात् । शौभ्रेयः , वैष्टपुरेयः ।।७३।।
श्याम-लक्षणाद् वाशिष्ठे ।६।११७४॥ आभ्यां वाशिष्ठेऽपत्ये एयण् स्यात् । श्यामेय: , लाक्षणेयो वाशिष्ठः ॥७४||
विकर्ण-कुषीतकात् काश्यपे ।६।११७५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org