SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३०२ स्वोपज्ञलघुवृत्तिविभूषितं ___दर्भ-कृष्णा-ऽग्निशर्म-रण-शरद्वच्छुनकादाग्रायण-ब्राह्मण-वार्षगण्य-वाशिष्ठ-भार्गव-वात्स्ये।६।१५७॥ एभ्यो यथासङ्ख्यमेषु वृद्धेष्वायनण्स्यात्। दार्भायण आग्रायणश्चेत् , कार्णायनो ब्राह्मण: , आग्निशर्मायणो वार्षगण्यः , राणायनो वाशिष्ठः , शारद्वतायनो भार्गव: , शौनकायनो वात्स्यः ||५|| जीवन्त-पर्वताद् वा ।६।१।५८॥ आभ्यां वृद्धे आयनण् वा स्यात् । जैवन्तायन: , जैवन्ति: ; पार्वतायन: , पार्वतिः ॥५८॥ द्रोणाद् वा ।६।१५९॥ द्रोणादपत्यमाने आयनण् वा स्यात् । द्रौणायनः , द्रौणि: ।।५९|| शिवादेरण् ।६।११६०॥ शिवादेरपत्येऽण् स्यात् । शैवः , प्रौष्ठः ॥६०।। ऋषि-वृष्ण्यन्धक-कुरुभ्यः ।६।२६१॥ ऋष्यादिवाचिभ्योऽपत्येऽण् स्यात् । वाशिष्ठः , वासुदेव: , श्वाफल्कः , नाकुलः ॥६॥ ___ कन्या-त्रिवेण्याः कनीन-त्रिवणं च ।।श६२॥ आभ्यामपत्येऽण् स्याद् , यथासङ्ख्यं कनीन-त्रिवणौ चाऽऽदेशौ । कानीन: , त्रैवण: ||६२॥ शुङ्गाभ्यां भारद्वाजे ।६।१६३॥ शुङ्ग-शुङ्गाशब्दाभ्यां भारद्वाजेऽपत्येऽण् स्यात् । शौङ्गो भारद्वाजः ॥६३॥ विकर्ण-च्छगलाद् वात्स्या-ऽऽत्रेये ।६।११६४॥ आभ्यां यथासङ्ख्यं वात्स्ये आत्रेये चापत्येऽण् स्यात् । वैकर्णो वात्स्य: , छागल आत्रेयः ॥६४॥ णश्च विश्रवसो विश्लुक् च वा ।६।१६५॥ विश्रवसोऽपत्येऽण् स्यात् , तद्योगे च ण: , णयोगे च विशो लुक् च वा । वैश्रवण: , रावणः ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy