SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् रेवत्यादेरिकण् ।६।१८६॥ एभ्योऽपत्ये इकण् स्यात् । रैवतिकः , आश्वपालिकः ।।८६।। वृद्धस्त्रियाः क्षेपे णश्च ।६।११८७॥ वृद्धप्रत्ययान्तात् स्त्रियामपत्ये णेकणौ स्यातां क्षेपे गम्ये । गार्या अपत्यं युवा गार्गः , गार्गिको वा जाल्म: ॥८७|| भ्रातुर्व्यः ।६।१।८८॥ भ्रातुरपत्ये व्य: स्यात् । भ्रातृव्यः ।।८८|| _ईयः स्वसुश्च ।६।१।८९॥ भ्रातु: स्वसुश्चापत्ये ईय: स्यात् । भ्रात्रीयः , स्वस्रीय: ।।८९।। मातृ-पित्रादेर्डेयणीयणौ ।६।१।९०॥ मातृपितृशब्दावादी यस्य स्वस्रन्तस्य तस्मादपत्ये डेयणीयणौ स्याताम् । मातृष्वसेयः , मातृष्वस्रीयः ; पैतृष्वसेयः , पैतृष्वस्रीयः ॥९०॥ श्वशुराद् यः ।६।११९१॥ अस्मादपत्ये य: स्यात् । श्वशुर्यः ॥९१।। जातौ राज्ञः ।६।११९२॥ राज्ञोऽपत्ये जातौ गम्यायां य: स्यात् । राजन्य: , क्षत्रियजातिश्चेत् ।।१२।। क्षत्रादियः ।६।११९३॥ क्षत्रादपत्ये जाताविय: स्यात् । क्षत्रिय: , जातिश्चेत् ।।९३।। मनोर्या-ऽणी षश्चान्तः ।६।१।९४॥ मनोरपत्ये या-ऽणौ स्यातां , तद्योगे षश्चान्त: जातौ गम्यायाम् । मनुष्या: , मानुषाः ।।९४|| माणवः कुत्सायाम् ।६।१।९५॥ मनोरपत्येऽणि कुत्सायां नो ण् स्यात् । मनोरपत्यं मूढं माणवः ।।९५|| कुलादीनः ।।१९६॥ कुलान्तात् केवलकुलाच्चाऽपत्ये ईन: स्यात् । बहुकुलीन: , कुलीनः ॥९६|| यैयकञावसमासे वा ।६।१९७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy