SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २९९ ; पौंस्नम् , पुंस्त्वम् ।२६।। ___गोः स्वरे यः ।६।१॥२७॥ गो: स्वरादितद्धितप्राप्तौ य: स्यात् । गव्यम् । स्वर इति किम् ? गोमयम् ||२७|| ङसोऽपत्ये ।६।१२८॥ षष्ठयन्तादपत्येऽर्थे यथाविहितमणादय: स्युः । औपगवः , दैत्यः ॥२८॥ आद्यात् ।६।१।२९॥ अपत्ये यस्तद्धितः स परमप्रकृतेरेव स्यात् । उपगोरपत्यमौपगवः , तस्याऽप्यौप गवि: , औपगवेरप्यौपगवः ।।२९।। वृद्धाद् यूनि ।६।११३०॥ यूनि अपत्ये य: प्रत्यय: स आद्यायो वृद्धप्रत्ययस्तदन्तात् स्यात्। गार्ग्यस्यापत्यं युवा गाायण: ।।३०|| अत इञ्।६।१॥३१॥ अदन्तात् षष्ठयन्तादपत्ये इञ् स्यात् । दाक्षिः ॥३१॥ बाह्वादिभ्यो गोत्रे ।६।१॥३२॥ स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम् , एभ्य: षष्ठय न्तेभ्यो गोत्रेऽर्थे इञ् स्यात् । बाहवि: , औपबाहविः ।।३२।। वर्मणोऽचक्रात् ।६।१॥३३॥ चक्रवर्जात् परो यो वर्मा तदन्तादपत्येऽर्थे इञ् स्यात् । ऐन्द्रवर्मिः । अचक्रादिति किम् ? चाक्रवर्मण: ॥३३॥ अजादिभ्यो धेनोः ।६।१॥३४॥ एभ्य: परो यो धेनुस्तदन्तादपत्यार्थे इञ् स्यात् । आजधेनविः , बाष्कधेनवि: ॥३४॥ ब्राह्मणाद्वा ।६।१।३५॥ ब्राह्मणाद् धेनुस्तदन्तादपत्येऽर्थे इञ् वा स्यात् । ब्राह्मणधेनविः , ब्राह्मणधेनवः ||३५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy