________________
२९८
स्वोपज्ञलघुवृत्तिविभूषितं
माला
पृथिव्या ञा-ऽञ् ।६।।१८॥ पृथिव्याः प्राग्जितीयेऽर्थेऽनिदम्यणपवादे च ञा-ऽसौ स्याताम् । पार्थिवा , पार्थिवी ॥१८॥
उत्सादेरञ्।६।१।१९॥ अस्मात् प्राग्जितीयेऽर्थेऽनिदम्यणपवादे चाऽञ् स्यात् । औत्सः , औदपानम् |१९||
बष्कयादसमासे ।६।१२०॥ असमासवृत्तेर्बष्कयात् प्राजितीयेऽर्थेऽनिदम्यणपवादे चाऽञ् स्यात् । बाष्कय: ! असमास इति किम् ? सौबष्कयिः ॥२०॥
देवाद् यञ् च ।६।१२१॥ देवात् प्राजितीयेऽर्थेऽनिदम्यणपवादे च यजत्रौ स्याताम् । दैव्यम् , दैवम् ॥२१॥
__ अः स्थानः ।६।१।२२।। स्थाम्नः प्रागजितीयेऽर्थे अ: स्यात् । अश्वत्थामः ।।२२।।
लोम्नोऽपत्येषु ।६।१।२३॥ लोम्न: प्राग्जितीयेऽर्थे बह्वपत्याऽर्थे अ: स्यात् । उडुलोमाः । बहुवचनं किम् ? औडुलोमिः ॥२३॥
द्विगोरनपत्ये य-स्वरादेर्लुबद्विः ।।१।२४॥ अपत्यादन्यस्मिन् प्राग्जितीयेऽर्थे भूतस्य द्विगो: परस्य यादेः स्वरादेश्च प्रत्ययस्य लुप् स्यात् , न तु द्विः । द्विरथः , पञ्चकपालः । अनपत्य इति किम् ? द्वैमातुरः । अद्विरिति किम् ? पाञ्चकपालम् ।।२४।।।
प्राग् वतः स्त्री-पुंसात् नञ्-स्नञ् ।६।१।२५॥ वतोऽर्वागर्थेष्वनिदम्यणपवादे चाभ्यां यथासङ्ख्यं नञ्-स्नौ स्याताम् । खैण: , पौंस्न: । प्राग् वत इति किम् ? स्त्रीवत् ।।२५॥
त्वे वा ।६।१॥२६॥ स्त्री-पुंसाभ्यां त्वविषये यथासङ्ख्यं नञ्-स्नञौ वा स्याताम् । णम् , स्त्रीत्वम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org