________________
३००
स्वोपज्ञलघुवृत्तिविभूषितं
भूयस्-सम्भूयो-ऽम्भो-ऽमितौजसः स्लुक् च ।६।११३६॥ एभ्योऽपत्ये इञ् स्यात् , सो लुक् च । भौयि: , साम्भूयिः , आम्भिः , आमितौजि: ॥३६॥
शालङ्यौदि-षाडि-वावलि ।६।११३७॥ एतेऽपत्ये इञन्ता निपात्यन्ते । शालङ्किः , औदि: , षाडिः , वाड्वलिः ||३७|| व्यास-वरुट-सुधातृ-निषाद-बिम्ब-चण्डालादन्त्यस्य चाऽक्।६।१॥३८॥
एभ्योऽपत्ये इञ् स्यात् , तद्योगे चैषामन्तस्याऽक् । वैयासकिः , वारुटकि: , सौधातकिः , नैषादकिः , बैम्बकिः , चाण्डालकिः ॥३८।।
पुनर्भू-पुत्र-दुहितृ-ननान्दुरनन्तरेऽञ् ।६।१।३९॥ एभ्य: षष्ठयन्तेभ्योऽनन्तरेऽपत्येऽञ् स्यात् । पौनर्भवः , पौत्र: , दौहित्रः , नानान्द्रः ।।३९॥
परस्त्रियाः परशुश्वाऽसावर्थे ।६।१॥४०॥ परस्त्रिया अनन्तरेऽपत्येऽञ् स्यात् , तद्योगेऽस्य परशुश्च , न चेदसौ पुंसा सजातीया । पारशव: । असावर्ण्य इति किम् ? पारस्त्रैणेयः ॥४०॥
विदादेवृद्धे ।६।११४१॥ एभ्यो वृद्धेऽपत्येऽञ् स्यात् । वैदः , और्वः ॥४१॥
गर्गादेर्यञ् ।६।११४२॥ एभ्य: षष्ठयन्तेभ्यो वृद्धेऽपत्ये यञ् स्यात् । गार्ग्यः । वात्स्यः ॥४२॥
मधु-ब्रभ्रोर्ब्राह्मण-कौशिके ।६।१॥४३॥ आभ्यां यथासङ्खयं ब्राह्मणे कौशिके च वृद्धेऽपत्ये यञ् स्यात् । माधव्यो ब्राह्मण: , ब्राभ्रव्य: कौशिकः ॥४३॥
कपि-बोधादाङ्गिरसे।६।११४४॥ आभ्यामाङ्गिरसे वृद्धेऽपत्ये यञ् स्यात् । काप्य: , बौध्य आङ्गिरसः ॥४४||
वतण्डात् ।६।१॥४५॥ अस्मादाङ्गिरसे वृद्धे यज्ञेव स्यात् । वातण्ड्य आङ्गिरसः ॥४५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org