________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
परिक्लेश्येन ।।४।८०॥ परिक्लेश्येन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् धातो: सम्बन्धे णम् वा स्यात् । उरांसि प्रतिपेषं उर:प्रतिपेषम् , उरांसि प्रतिपिष्य वा युध्यन्ते ।।८०॥
विश-पत-पद-स्कन्दो वीप्सा-ऽऽभीक्ष्ण्ये ।५।४।८१॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् विश्यादेवींप्सा-ऽऽभीक्ष्ण्ययोर्गम्ययोर्धातो: सम्बन्धे णम् वा स्यात् । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते , गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते , गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते , गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते ; गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते , गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते ; गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते , गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते ; पक्षे-गेहं गेहमनुप्रविश्याऽऽस्ते , गेहमनुप्रविश्यानुप्रविश्याऽऽस्ते इत्यादि ।।८।।
कालेन तृष्यस्वः क्रियाऽन्तरे ।।४।८२॥ क्रियाव्यवधायकार्थाभ्यां तृष्यसूभ्यां द्वितीयान्तेन कालार्थेन योगे धातो: सम्बन्धे णम् वा स्यात् । व्यहं तर्षं द्वयहतर्षं गाव: पिबन्ति । व्यहमत्यासं द्वयहात्यासं गाव: पिबन्ति । क्रियान्तर इति किम् ? अहरत्यस्येषून् गतः ।।८२।।
नाम्ना ग्रहा-ऽऽदिशः ।५।४।८३॥ नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् ग्रहेरादिशेश्च धातो: सम्बन्धे णम् वा स्यात् । नामानि ग्राहं नामग्राहमाह्वयति , नामान्यादेशं नामादेशं दत्ते , पक्षे-नाम गृहीत्वा दत्ते ।।८३॥
कृगोऽव्ययेनाऽनिष्टोक्तौ क्त्वा-णमौ ।५।४।८४॥ अव्ययेन योगे तुल्यकर्तृकार्थात् कृगोऽनिष्टोक्तौ गम्यायां धातोः सम्बन्धे क्त्वा-णमौ स्याताम् । ब्राह्मण ! पुत्रस्ते जात: , किं तर्हि वृषल ! नीचैः कृत्वा , नीचैःकृत्य , नीचैःकारं कथयसि ? उच्चै म प्रियमाख्येयम् । अनिष्टोक्ताविति किम् ? उच्चैः कृत्वाऽऽचष्टे - ब्राह्मण ! पुत्रस्ते जात इति । अव्ययेनेति किम् ? ब्राह्मण ! पुत्रस्ते जात: , किं तर्हि वृषल ! मन्दं कृत्वा कथयसि ? ।।८४||
तिर्यचाऽपवर्गे।५।४।८५॥ क्रियासमाप्तौ गम्यायां तिर्यचाऽव्ययेन योगे तुल्यकर्तृकार्थात् कृगो धातो:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org