________________
२९४
स्वोपज्ञलघुवृत्तिविभूषितं
सम्बन्धे क्त्वा-णमौ स्याताम् । तिर्यक् कृत्वा , तिर्यक्कृत्य , तिर्यक्कारमास्ते । अपवर्ग इति किम् ? तिर्यक् कृत्वा काष्ठं गतः ।।८५॥
स्वाङ्गतळ्यर्थे नाना-विना-धार्थेन भुवश्च ।५।४।८६॥ तसन्तेन स्वाङ्गेन , व्यर्थवृत्तिभिर्नाना-विनाभ्यां धाऽर्थप्रत्ययान्तैश्च योगे तुल्यकर्तृकार्थाद् भुव: कृगश्च धातो: सम्बन्धे क्त्वा-णमौ स्याताम् । मुखतो भूत्वा , मुखतोभूय , मुखतोभावमास्ते ; नाना भूत्वा , नानाभूय , नानाभावं गतः , विना भूत्वा , विनाभूय , विनाभावं गतः ; द्विधा भूत्वा , द्विधाभूय , द्विधाभावमास्ते ; एवं पार्वत: कृत्वा , पार्श्वत:कृत्य , पार्वत:कारं शेते इत्यादि । व्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि भुते ॥८६॥
तूष्णीमा ।५।४।८७॥ तूष्णीयोगे तुल्यकर्तृकार्थाद् भुवो धातो: सम्बन्धे क्त्वा-णमौ स्याताम् । तूष्णीं भूत्वा , तूष्णीभूय , तूष्णींभावमास्ते ॥८७||
आनुलोम्येऽन्वचा ।।४।८८॥ अन्वचाऽव्ययेन योगे तुल्यकर्तृकार्थाद् भुव आनुलोम्ये गम्ये धातोः सम्बन्धे क्त्वा-णमौ स्याताम् । अन्वग् भूत्वा , अन्वग्भूय , अन्वग्भावमास्ते। आनुलोम्य इति किम् ? अन्वग् भूत्वा विजयते , पश्चाद् भूत्वेत्यर्थः ।।८८||
इच्छार्थे कर्मणः सप्तमी ।५।४।८९॥ इच्छार्थे धातावुपपदे तुल्यकर्तृकार्थात् कर्मभूताद्धातो: सप्तमी स्यात्। भुञ्जीयेति इच्छति । इच्छार्थ इति किम् ? भोजको याति । कर्मण इति किम् ? इच्छन् करोति ।।८९||
शक-धृष-ज्ञा-रभ-लभ-सहा-ऽर्ह-ग्ला-घटा-ऽस्ति-समर्थार्थे च तुम् ।५।४॥९ ॥
शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताद्धातोस्तुम् स्यात् । शक्नोति पारयति वा भोक्तुम् , एवं धृष्णोति , जानाति , आरभते , लभते , सहते , अर्हति , ग्लायति , घटते , अस्ति , समर्थः , इच्छति १. P2,P3सं, पा३, पासं ४, पामू०२ J3 विना – धात्वर्थ J1,2 पा१,५,पामू ४ पासं०२ P1मू० P3मू०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org