SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २९२ स्वोपज्ञलघुवृत्तिविभूषितं __ हिंसाद् धातोर्धात्वन्तरेणैकाऽऽप्यात् तुल्यकर्तृकार्थात् तृतीयान्तेन योगे णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातं दण्डेनोपहत्य वा गा: सादयति । एकाप्यादिति किम् ? दण्डेनाहत्य चौरं गोपालो गा: खेटयति ॥७४॥ उपपीड-रुध-कर्षस्तत्सप्तम्या ।।४।७५॥ तया तृतीयया युक्ता सप्तमी तत्सप्तमी , तदन्तेन योगे उपपूर्वेभ्य एभ्यस्तुल्यकर्तृकार्थेभ्यो धातो: सम्बन्धे णम् वा स्यात् । पार्धाभ्यामुपपीडं पार्थोपपीडं शेते , पार्श्वयोरुपपीडं पार्थोपपीडं शेते ; व्रजेनोपरोधं व्रजोपरोधम् , व्रजे उपरोधं व्रजोपरोधं गा: स्थापयति ; पाणिनोपकर्षं पाण्युपकर्षम् , पाणावुपकर्षं पाण्युपकर्ष धाना गृह्णाति ॥७५|| प्रमाण-समासत्त्योः ।५।४७६॥ आयाममानं प्रमाणम् , समासत्तिः संरम्भपूर्वक: सन्निकर्षः , तयोर्गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकार्थाद् धातो: संबन्धे णम् वा स्यात् । द्वयङ्गुलेनोत्कर्ष व्यङ्गुलोत्कर्षम् , द्व्यङ्गुले उत्कर्ष द्वयङ्गुलोत्कर्षं गण्डिकाश्छिनत्ति ; केशैाहं केशग्राहम् , केदोषु ग्राहं केशग्राहं युध्यन्ते ; पक्षे-द्वयङ्गुलेनोत्कृष्य गण्डिकाश्छिनत्ति ।।७६।। पञ्चम्या त्वरायाम् ।५।४।७७॥ त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद् धातो: सम्बन्धे णम् वा स्यात् । शय्याया उत्थायं शय्योत्थायं धावति , पक्षे-शय्याया उत्थाय धावति । त्वरायामिति किम् ? आसनादुत्थाय याति ।।७७॥ द्वितीयया ।५।४।७८॥ द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद् धातो: सम्बन्धे णम् वा स्यात् । लोष्टान् ग्राहं लोष्टग्राहम् , लोष्टान् गृहीत्वा युध्यन्ते ।।७८।। स्वाङ्गेनाऽध्रुवेण ।।४॥७९॥ यस्मिन्नङ्गे च्छिन्ने भिने वा प्राणी न म्रियते तदध्रुवम् , तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद् धातो: सम्बन्धे णम् वा स्यात् । भ्रुवौ विक्षेपं भ्रूविक्षेपम् , ध्रुवौ विक्षिप्य वा जल्पति । स्वाङ्गेनेति किम् ? कफमुन्मूल्य जल्पति । अध्रुवेणेति किम् ? शिर उत्क्षिप्य वक्ति ॥७९|| . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy