SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २९१ सम्बन्धे णम् वा स्यात् । स्वपोषं पुष्णाति , एवम् आत्मपोषम् , गोपोषम् । उदपेषं पिनष्टि , एवं क्षीरपेषम् ॥६५॥ । हस्तार्थाद् ग्रह-वर्ति-वृतः ।।४।६६। हस्तार्थात् करणवाचिन: परेभ्य एभ्यस्तस्यैव सम्बन्धे णम् वा स्यात् । हस्तग्राहं गृह्णाति , एवं करग्राहम् , हस्तवर्तं वर्त्तयति , पाणिवत्र्तं वर्तते ॥६६।। बन्धेर्नाम्नि ।५।४।६७॥ बन्धिः प्रकृतिर्नामविशेषणं च , बन्धेर्बन्धनस्य यन्नाम संज्ञा , तद्विषयात् करणार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । कौञ्चबन्धम्बद्धः ।।६७|| आधारात् ।५।४।६८॥ आधारार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । चारकबन्धम्बद्धः ॥६८।। कर्तुर्जीव-पुरुषानश्-वहः ।५।४।६९।। आभ्यां कर्तृभ्यां पराद् यथासङ्ख्यं नशेर्वहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । जीवनाशं नश्यति , पुरुषवाहं वहति । कर्तुरिति किम् ? जीवेन नश्यति ॥६९।। ऊर्ध्वात् पू:-शुषः ।५।४।७०॥ कर्तुरूर्ध्वात् परात् पूरः शुषश्च तस्यैव सम्बन्धे णम् वा स्यात् । ऊर्ध्वपूरं पूर्यते , ऊर्ध्वशोषं शुष्यति ।।७०।। व्याप्याच्चेवात् ।५।४७१॥ व्याप्यात् कर्तुश्चोपमानात् पराद् धातोस्तस्यैव सम्बन्धे णम् वा स्यात् । सुवर्णनिधायं निहित: , काकनाशं नष्टः ॥७१|| उपात् किरो लवने ।५।४७२॥ उपपूर्वात् किरतेर्लवनार्थस्य धातो: सम्बन्धे णम् वा स्यात् । उपस्कारं मद्रका लुनन्ति । लवन इति किम् ? उपकीर्य याति ॥७२।। दंशेस्तृतीयया ।५।४।७३॥ तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वाद् दंशेर्धातो: सम्बन्धे णम् वा स्यात् । मूलकेनोपदंशं मूलकोपदंशम् , मूलकेनोपदश्य भुङ्क्ते ।।७३|| हिंसार्थादेकाऽऽप्यात् ।५।४।७४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy