SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं वृष्टिमान ऊलुक् चास्य वा | ५|४|५७ || व्याप्यात् परात् पूरयतेर्धातोः सम्बन्धे णम् वा स्यात्, पूरयतेरूतो लुक् च वा समुदायेन चेद् वृष्टीयत्ता गम्यते । गोष्पदप्रं गोष्पदपूरं वा वृष्टो मेघः ||५७ || चेलार्थात् क्नोपेः | ५ | ४|५८ || चेलार्थाद् व्याप्यात् परात् क्नोपयतेस्तुल्यकर्तृकार्थाद् वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा स्यात् । चेलक्नोपं वृष्टो मेघः ||५८|| २९० 7 गात्र- पुरुषात् स्रः |५|४|५९ ॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्थात् स्नातेर्वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा स्यात् । गात्रस्नायं दृष्टः, पुरुषस्नायं वृष्टः ||५९|| शुष्क चूर्ण रूक्षात् पिषस्तस्यैव | ५|४|६० || - एभ्यो व्याप्येभ्यः परात् पिषेर्णम् वा स्यात्, तस्यैव धातोः सम्बन्धे । शुष्कपेषं पिनष्टि एवं चूर्णपेषम्, रूक्षपेषम् ||६०|| " कृग् - ग्रहोऽकृत - जीवात् |५|४|६ १ ॥ आभ्यां व्याप्याभ्यां पराद् यथासङ्ख्यं कृगो ग्रहेश्व तस्यैव सम्बन्धे णम् वा स्यात् । अकृतकारं करोति, जीवग्राहं गृह्णाति ॥ ६१ ॥ निमूलात् कषः | ५|४|६२|| निमूलाद् व्याप्यात् परात् कषेस्तस्यैव सम्बन्धे णम् वा स्यात् । निमूलकाषं कषति निमूलस्य काषं कषति ||६२|| 9 हनश्च समूलात् |५|४|६३ ॥ समूलाद् व्याप्यात् पराद् हन्तेः कषेश्च तस्यैव सम्बन्धे णम् वा स्यात् । समूलघातं हन्ति, समूलकाषं कषति ||६३ || करणेभ्यः |५|४|६४॥ करणार्थाद् पराद् हन्तेस्तस्यैव सम्बन्धे णम् वा स्यात् । पाणिघातं कुड्यमाहन्ति ||६४|| स्व-स्नेहनार्थात् पुष - पिषः | ५|४|६५ || स्वशब्दार्थात् स्नेहनार्थाच्च करणार्थात् पराद् यथासङ्ख्यं पुषः पिषश्च तस्यैव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy