SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् ||५|४|५० ॥ एभ्यः परात् तुल्यकर्तृकार्थात् कृगोऽनर्थकाद् धातोः सम्बन्धे ख्णम् वा स्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कारम्, इत्थङ्कारं भुङ्क्ते, पक्षे - अन्यथा कृत्वा | अनर्थकादिति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ॥५०॥ यथा तथादीर्य्योत्तरे | ५|४|५१ || आभ्यां तुल्यकर्तृकार्थादनर्थकात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात्, ईर्ष्यश्चेदुत्तरयति । कथं त्वं भोक्ष्यसे ? इति पृष्टोऽसूयया तं प्रत्याह-यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन ? । ईष्र्योत्तर इति किम् ? यथा कृत्वाऽहं भोये तथा द्रक्ष्यसि ॥५१॥ , शापे व्याप्यात् | ५|४|५२॥ कर्मणः परात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात्, आक्रोशे गम्ये । चोरङ्कारमाक्रोशति । शाप इति किम् ? चोरं कृत्वा हेतुभिः कथयति I ॥५२॥ २८९ स्वाद्वर्थाद् अदीर्घात् |५|४|५३॥ स्वाद्वर्थाददीर्घान्ताद् व्याप्यात् परस्मात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात् । स्वादुङ्कारं भुङ्क्ते, मिष्टङ्कारं भुङ्क्ते, पक्षे - स्वादुं कृत्वा । अदीर्घादिति किम् ? स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ॥ ५३|| विद्-दृग्भ्यः कात्स्र्त्स्न्ये णम् ||५|४|५४|| कार्त्स्यवतो व्याप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो विदिभ्यो दृशे धातोः सम्बन्धे णम् वा स्यात् । अतिथिवेदं भोजयति, कन्यादर्शं वरयति | कार्त्स्य इति किम् ? अतिथिं विदित्वा भोजयति ||५४ || यावतो विन्द - जीवः | ५|४|५५ || कार्त्स्यवतो व्याप्याद् यावतः पराभ्यां तुल्यकर्तृकाभ्यां विन्द- जीविभ्यां धातोः सम्बन्धे णम् वा स्यात् । यावद्वेदं भुङ्क्ते, यावज्जीवमधीते ॥ ५५ ॥ चर्मोदरात् पूरे: ।५|४|५६ ॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्थात् पूरयतेर्धातोः सम्बन्धे णम् वा स्यात् । चर्मपूरमास्ते उदरपूरं शेते ॥ ५६ ॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy