________________
२८८
स्वोपज्ञलघुवृत्तिविभूषितं , पुनीहीत्येव चेष्टध्वे ; पक्षे-ब्रीहीन् वपथ , लुनीथ , पुनीथेत्येव यतध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवाधीध्वे , सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीध्वे ; पक्षे-सूत्रमधीध्वे नियुक्तिमधीध्वे भाष्यमधीध्वे इत्येवाधीध्वे । सामान्यार्थस्येति किम् ? व्रीहीन् वप लुनीहि पुनीहि इत्येव वपति लुनाति पुनातीति मा भूत् ।।४३॥
निषेधेऽलं-खल्वोः क्त्वा ।५।४।४४॥ निषेधार्थयोरलं-खल्वोरुपपदयोर्धातो: क्त्वा वा स्यात् । अलं कृत्वा , खलु कृत्वा , पक्षे-अलं रुदितेन ॥४४।।
पराऽवरे ।५।४।४५॥ परे अवरे च गम्ये क्त्वा वा स्यात् । अतिक्रम्य नदी गिरिः , नद्यतिक्रमेण गिरिः , अप्राप्य नदी गिरिः , नद्यप्राप्त्या गिरिः ।।४।।
निमील्यादि-मेङस्तुल्यकर्तृके ।५।४।४६॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तवृत्तिभ्यो निमील्यादिभ्यो मेडश्च धातो: सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति , मुखं व्यादाय स्वपिति , अपमित्य याचते , पक्षे-अपमातुं याचते । तुल्यकर्तृक इति किम् ? चैत्रस्याक्षिनिमीलने मैत्रो हसति ॥४६।।
. प्राकाले ।५।४।४७॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातो: सम्बन्धे क्त्वा वा स्यात् । आसित्वा भुङ्क्ते , आस्यते भोक्तुम् । प्राक्काल इति किम् ? भुज्यते पीयते च ॥४७॥
__ ख्णम् चाभीक्ष्ण्ये ५।४॥४८॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद् धातो: सम्बन्धे ख्णम् क्त्वा च स्यात् । भोजं भोजं याति , भुक्त्वा भुक्त्वा याति ॥४८॥
पूर्वा-ऽग्रे-प्रथमे ।५।४॥४९॥ एषूपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातो: सम्बन्धे ख्णम् वा स्यात् । पूर्वं भोजं याति , पूर्वं भुक्त्वा याति , एवम्-अग्रे भोजम् , अग्रे भुक्त्वा ; प्रथमं भोजम् , प्रथमं भुक्त्वा ; पूर्वं भुज्यते ततो याति ।।४९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org