________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२८७
____२८७
किम् ? चिरं जीवति मैत्रः ॥३८||
माझ्यद्यतनी।५।४॥३९॥ माङि उपपदेऽद्यतनी स्यात् । मा कार्षीत् ।।३९।।
सस्मे ह्यस्तनी च ।।४।४०॥ स्मयुक्ते माङ्युपपदे ह्यस्तन्यद्यतनी च स्यात् । मा स्म करोत् , मा स्म कार्षीत् ।।४०॥
धातोः सम्बन्धे प्रत्ययाः ।।४।४१॥ धात्वर्थानां संबन्धे विशेषणविशेष्यभावे सति अयथाकालमपि प्रत्यया: साधव: स्यु । विश्वदृश्वाऽस्य पुत्रो भविता , भावि कृत्यमासीत् , गोमानासीत् ॥४१॥ भृशा-ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि त-ध्वमौ च तयुष्मदि ।५।४।४२॥ ___ भृशा-ऽऽभीक्ष्ण्ये सर्वकालेऽर्थे वर्तमानाद् धातोः सर्वविभक्तिचनविषये हि-स्वौ स्याताम् , यथाविधि धातो: संबन्धे यत एव धातोर्यस्मिन्नेव कारके हि-स्वौ तस्यैव धातोस्तत्कारकविशिष्टस्यैव सम्बन्धे अनुप्रयोगे सति , तथा पञ्चम्या एव त-ध्वमौ , तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हि-स्वौ च स्यातां यथाविधि धातो: सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि , अधीष्वाधीष्वेत्ये वायमधीते इत्यादि , लुनीत लुनीतेत्येव यूयं लुनीथ , लुनीहि लुनीहीत्येव यूयं लुनीथ , अधीध्वमधीध्वमित्येव यूयमधीध्वे , अधीष्वाधीष्वेत्येव यूयमधीध्वे । यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनाति , छिनत्ति , लूयते वेति धातो: संबन्धे मा भूत् ।।४२।।
प्रचये नवा सामान्यार्थस्य ।५।४।४३॥ धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हि-स्वौ , त-ध्वमौ च तद्युष्मदि वा स्याताम् । व्रीहीन् वप , लुनीहि , पुनीहि , इत्येव यतते , यत्यते वा ; पक्षे-व्रीहीन् वपति , लुनाति , पुनाति , इत्येव यतते , यत्यते वा । सूत्रमधीष्व , नियुक्तिमधीष्व , भाष्यमधीष्वेत्येवाधीते , पठ्यते वा ; पक्षे-सूत्रमधीते , नियुक्तिमधीते , भाष्यमधीते , इत्येवाधीते , पठ्यते वा । व्रीहीन् वपत , लुनीत , पुनीतेत्येव यतध्वे , व्रीहीन् वप , लुनीहि १. सर्ववचन P1 ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org