SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २८४ स्वोपज्ञलघुवृत्तिविभूषितं मर्षयामि , अस्ति नाम , भवति नाम तत्रभवान् परदारानुपकरिष्यते ।।१६।। जातु-यद्-यदा-यदौ सप्तमी ।।४।१७॥ एषूपपदेष्वश्रद्धा-ऽमर्षयोः सप्तमी स्यात् । न श्रद्दधे , न क्षमे जातु तत्रभवान् सुरां पिबेत् , एवं यत् , यदा , यदि सुरां पिबेत् ।।१७|| क्षेपे च यच्च यत्रे ।।४।१८॥ ___ यच्च-यत्रयोरुपपदयोः क्षेपेऽश्रद्धा-ऽमर्षयोश्च गम्ययोः सप्तमी स्यात् । धिग् गर्हामहे यच्च यत्र वा तत्रभवानस्मान् आक्रोशेत् , न श्रद्दधे , न क्षमे यच्च यत्र वा तत्रभवान् परिवादं कथयेत् ॥१८|| चित्रे ।५।४।१९॥ आश्चर्ये गम्ये यच्च-यत्रयोरुपपदयो: सप्तमी स्यात् । चित्रमाश्चर्यं यच्च यत्र वा तत्रभवान् अकल्प्यं सेवेत ॥१९।। शेषे भविष्यन्त्ययदौ ।५।४।२०॥ यच्च-यत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्ये भविष्यन्ती स्यात् , न तु यदिशब्दे । चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति । शेष इति किम् ? यच्च-यत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् ? चित्रं यदि स भुञ्जीत ॥२०॥ सप्तम्युता-ऽप्योढे ।५।४।२१॥ बाढार्थयोरुता-ऽप्योरुपपदयोः सप्तमी स्यात् । उत अपि वा कुर्यात् । बाढे इति किम् ? उत दण्ड: पतिष्यति , अपि धास्यति द्वारम् ।।२।। सम्भावनेऽलमर्थे तदर्थानुक्तौ ।।४।२२॥ अलमोऽर्थे शक्तौ यत् सम्भावनं तस्मिन् गम्येऽलमर्थार्थस्याऽप्रयोगे सप्तमी स्यात् । अपि मासमुपवसेत् । अलमर्थ इति किम् ? निदेशस्थायी मे चैत्रः प्रायेण यास्यति । तदर्थानुक्ताविति किम् ? शक्तश्चैत्रो धर्मं करिष्यति ।।२२।। __ अयदि श्रद्धाधातौ नवा ।५।४।२३॥ संभावनाऽर्थे धातावुपपदेऽलमर्थविषये संभावने गम्ये सप्तमी वा स्यात् , न तु यच्छब्दे । श्रद्दधे , संभावयामि भुञ्जीत भवान् ; पक्षे-भोक्ष्यते , अभुत , अभुक्त वा । अयदीति किम् ? सम्भावयामि यद् भुञ्जीत भवान् । श्रद्धाधाताविति १. निर्देश पार P2 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy