SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८३ सप्तम्युताऽप्योर्बाढे [५/४/२१] इत्यत्र यदुतशब्दसंकीर्तनं तत: प्राक् सप्तम्यर्थे क्रियात्तिपत्तौ भूतार्थाद्धातोर्वा क्रियाऽतिपत्ति: स्यात्। कथं नाम संयत: सन्ननागाढे तत्रभवान् आधायकृतमसेविष्यत , धिग् गर्हामहे ; पक्षे-कथं सेवेत ? कथं सेवते ? धिग् गर्हामहे । उतात् प्रागिति किम् ? कालो यदभोक्ष्यत भवान् ।।११।। क्षेपेऽपि-जात्वोर्वर्तमाना ।५।४।१२॥ क्षेपे गम्येऽपि-जात्वोरुपपदयोर्धातोर्वर्त्तमाना स्यात् । अपि तत्रभवान् जन्तून् हिनस्ति ? जातु तत्रभवान् भूतानि हिनस्ति ? धिग् गर्हामहे ॥१२॥ कथमि सप्तमी च वा ।५।४।१३॥ कथं शब्दे उपपदे क्षेपे गम्ये धातो: सप्तमी वर्तमाना च वा स्यात् । कथं नाम तत्रभवान् मांसं भक्षयेत् ? भक्षयति वा ? गर्हामहे अन्याय्यमेतत् ; पक्षे-अबभक्षत् , अभक्षयत् , भक्षयाञ्चकार , भक्षयिता , भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियाऽतिपतने वा क्रियाऽतिपत्तिः -कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ? पक्षे-यथाप्राप्तम् ; भविष्यति तु क्रियातिपतने नित्यमेव सा-कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ॥१३॥ किंवृत्ते सप्तमी-भविष्यन्त्यौ ।५।४।१४॥ ___ किंवृत्ते उपपदे क्षेपे गम्ये धातो: सप्तमी-भविष्यन्त्यौ स्याताम्। किं तत्रभवाननृतं ब्रूयाद् , वक्ष्यति वा ? को नाम , कतरो नाम , कतमो नाम यस्मै तत्रभवान् अनृतं ब्रूयाद् , वक्ष्यति वा ? ।।१४।। अश्रद्धा-ऽमर्षेऽन्यत्रापि ।५।४।१५॥ अकिंवृत्ते किंवृत्ते चोपपदेऽश्रद्धा-ऽमर्षयोर्गम्ययोः सप्तमी-भविष्यन्त्यौ स्याताम् । न श्रद्दधे , न सम्भावयामि तत्रभवान् नामाऽदत्तं गृह्णीयात् , ग्रहीष्यति वा , न श्रद्दधे , किं तत्रभवान् अदत्तमाददीत , आदास्यते वा ? न मर्पयामि , न क्षमे तत्रभवान् नामादत्तं गृह्णीयात् ग्रहीष्यति वा ॥१५|| किङ्किलाऽस्त्यर्थयोर्भविष्यन्ती ।।४।१६॥ किङ्किलेऽस्त्यर्थे चोपपदेऽश्रद्धा-ऽमर्षयोर्गम्ययोर्भविष्यन्ती स्यात् । न श्रद्दधे , न मर्षयामि किङ्किल नाम तत्रभवान् परदारानुपकरिष्यते , न श्रद्दधे , न १. पत्तिः स्यात् P1 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy