SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं एष्यत्यवधौ देशस्याऽर्वाग्भागे |५|४|६ ॥ देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे । एष्यतीति किम् ? योऽयमध्वाऽतिक्रान्त आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि । अवधाविति किम् ? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे | अर्वाग्भाग इति किम् ? योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यत् परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे || ६ || I कालस्याऽनहोरात्राणाम् |५|४|७|| २८२ 9 कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे य एष्यन्नर्थस्तद्वृत्ते - र्धातोरनद्यतनविहितः प्रत्ययो न स्यात्, न चेत् सोऽर्वाग्भागोऽहोरात्राणाम् । योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः । अहोरात्राणामिति किम् ? योऽयं मास आगामी, तस्य योsवरः पञ्चदशरात्रस्तत्र युक्ताद्विध्येता ||७|| ? परेवा |५|४|८|| कालस्य योऽवधिस्तद्वाचिन्युपपदे, कालस्यैव परे भागेऽनहोरात्रसम्बन्धिनि य एष्यन्नर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो वा स्यात् । आगामिनो वत्सरस्याऽऽ ग्रहायण्याः परस्ताद् द्विः सूत्रमध्येष्यामहे, अध्येतास्महे वा ॥ ८ ॥ सप्तम्यर्थे क्रियाऽतिपत्तौ क्रियाऽतिपत्तिः | ५|४|९|| सप्तम्या अर्थो निमित्तं हेतुफलकथनादि सामग्रयम्, कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिर्वृत्तौ सत्यामेष्यदर्थाद् धातोः सप्तम्यर्थे क्रियाऽतिपत्तिः स्यात् । दक्षिणेन चेद् अयास्यत् न शकटं पर्याभविष्यत् ||९|| भूते |५|४|१०|| Jain Education International भूतार्थाद् धातोः क्रियाऽतिपत्तौ सत्यां सप्तम्यर्थे क्रियाऽतिपत्तिः स्यात् । दृष्टो मया तव पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्चातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत ॥ १० ॥ वोतात् प्राक् |५|४|११ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy