SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८१ [ चतुर्थः पादः ] सत्सामीप्ये सद्वद् वा ।५।४।१॥ समीपमेव सामीप्यम् , वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद् धातोर्वर्त्तमाने इव प्रत्यया वा स्युः । कदा चैत्र ! आगतोऽसि ? अयमागच्छामि , आगच्छन्तमेव मां विद्धि ; पक्षे-अयमागमम् , एषोऽस्म्यागत: ; कदा मैत्र ! गमिष्यसि ? एष गच्छामि , गच्छन्तमेव मां विद्धि ; पक्षे-एष गमिष्यामि , गन्ताऽस्मि , गमिष्यन्तमेव मां विद्धि ।।१।। भूतवच्चाऽऽशंस्ये वा ।५।४२॥ अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा , तद्विषयः आशंस्यः , तदर्थाद् धातोर्भूतवत् सद्वच प्रत्यया वा स्युः । उपाध्यायश्चेदागमत् , एते तर्कमध्यगीष्महि , उपाध्यायश्चेदागच्छति , एते तर्कमधीमहे ; पक्षे-उपाध्यायश्चेदागमिष्यति , आगन्ता वा , एते तर्कमध्येष्यामहे , अध्येतास्महे वा । आशंस्य इति किम् ? उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः ॥२॥ क्षिप्रा-ऽऽशंसाऽर्थयोर्भविष्यन्ती-सप्तम्यौ ।५।४॥३॥ क्षिप्रार्था-ऽऽशंसार्थयोरुपपपदयोराशंस्यार्थाद् धातोर्यथासङ्खचं भविष्यन्तीसप्तम्यौ स्याताम् । उपाध्यायश्चेदागच्छति , आगमत् , आगमिष्यति , आगन्ता , क्षिप्रमाशु एते सिद्धान्तमध्येष्यामहे ; उपाध्यायश्चेदागच्छति , आगमत् आगमिष्यति , आगन्ता , आशंसे संभावये युक्तोऽधीयीय ॥३॥ सम्भावने सिद्धवत् ।।४।४॥ हेतोः शक्तिश्रद्धानं सम्भावनम् , तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्ययाः स्युः । समये चेत् प्रयत्नोऽभूद् उदभूवन विभूतयः ।।४।। नाऽनद्यतनः प्रबन्धा-ऽऽसत्त्योः ।५।४।५॥ धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातोरनद्यतनविहितः प्रत्ययो न स्यात् । यावज्जीवं भृशमन्नमदात् , दास्यति वा ; येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट , येयं पौर्णमास्यागामिन्यस्यां जिनमह: प्रवर्तिष्यते ।।५।। १. धात्वर्थे च प्रबन्धे J1 ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy