SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २८५ किम् ? अपि शिरसा पर्वतं भिन्द्यात् ।।२३।। सतीच्छाऽर्थात् ।५।४॥२४॥ सदर्थादिच्छार्थात् सप्तमी वा स्यात् । इच्छेत् , इच्छति ।।२४।। वय॑ति हेतु-फले ।५।४॥२५॥ हेतुभूते फलभूते च वय॑त्यर्थे वर्तमानात् सप्तमी वा स्यात् । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् , यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति । वय॑तीति किम् ? दक्षिणेन चेद् याति न शकटं पर्याभवति ॥२५।। कामोक्तावकञ्चिति ।५।४।२६॥ इच्छाप्रवेदने गम्ये सप्तमी स्यात् , न तु कच्चित्प्रयोगे । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् ? कच्चित् जीवति मे माता ॥२६।। इच्छार्थे सप्तमी-पञ्चम्यौ ।५।४।२७॥ इच्छार्थे धातावुपपदे कामोक्तौ गम्यायां सप्तमी-पञ्चम्यौ स्याताम् । इच्छामि भुञ्जीत , भुतां वा भवान् ॥२७|| विधि-निमन्त्रणा-ऽऽमन्त्रणा-ऽधीष्ट-सम्प्रश्न-प्रार्थने ।५।४॥२८॥ विध्यादिविशिष्टेषु कर्तृ-कर्म-भावेषु प्रत्ययार्थेषु सप्तमी-पञ्चम्यौ स्याताम् । विधिः क्रियायां प्रेरणा , कटं कुर्यात् , करोतु भवान्। प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् , द्विसन्ध्यमावश्यकं कुर्यात् , करोतु । यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् , इहासीत , आस्ताम् । प्रेरणैव सत्कारपूर्विका अधीष्टम् , व्रतं रक्षेत् , रक्षतु । संप्रश्नः संप्रधारणा , किं नु खलु भो ! व्याकरणमधीयीय , अध्ययै , उत सिद्धान्तमधीयीय , अध्ययै ? । प्रार्थनं याच्ञा , प्रार्थना मे तर्कमधीयीय , अध्ययै ॥२८॥ प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ ।५।४।२९॥ प्रैषादिविशिष्टे कर्नादावर्थे कृत्या: पञ्चमी च स्युः । न्यत्कारपूर्विका प्रेरणा प्रेषः , भवता खलु कट: कार्य: , भवान् कटं करोतु , भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसर: कटकरणे ॥२९॥ सप्तमी चोर्ध्वमौहूर्त्तिके ।५।४।३०॥ प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्त्तिकेऽर्थे वर्तमानात् सप्तमी कृत्य-पञ्चम्यौ च स्यु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy