SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं किम् ? अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? शिष्येण गुरो: स्नापनं सुखम् । अङ्गेति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् । सुखमिति किम् ? कण्टकानां मर्दनम् । नित्यसमासार्थमिदम् ॥१२५।। रम्यादिभ्यः कर्तरि ।५।३।१२६॥ एभ्य: कर्तरि अनट् स्यात् । रमणी , कमनी ॥१२६।। कारणम् ।५।३।१२७॥ कृग: कर्त्तर्यनट् , वृद्धिश्च स्यात् । कारणम् ।।१२७|| भुजि-पत्यादिभ्यः कर्मा-ऽपादाने ।५।३।१२८॥ भुज्यादेः कर्मणि , पत्यादेश्चाऽपादानेऽनट् स्यात् । भोजनम् , निरदनम् ; प्रपतनः , अपादानम् ॥१२८|| करणा-ऽऽधारे ।५।३।१२९॥ अनयोरर्थयोर्धातोरनट् स्याद् । एषणी , सक्तुधानी ॥१२९।। पुनाम्नि घः ।५।३।१३०॥ पुंस: संज्ञायां गम्यायां धातो: करणा-ऽऽधारयोर्घ: स्यात् । दन्तच्छद: , आकरः । पुमिति किम् ? विचयनी । नाम्नीति किम् ? प्रहरणो दण्डः ॥१३०|| गोचर-संचर-वह-व्रज-व्यज-खला-ऽऽपण-निगम-बक-भग-कषाऽऽकष-निकषम् ।५।३।१३१॥ ___ एते करणा-ऽऽधारयोः पुनाम्नि घान्ता निपात्यन्ते । गोचर: , संचर: , वहः , व्रजः , व्यज: , खलः , आपण: , निगमः , बक: बाहुलकात् कर्त्तरि , भगः , बाहुलकाद् भगम् , कषः , आकष: , निकषः ॥१३१।। __व्यञ्जनाद् घञ्।५।३।१३२॥ व्यञ्जनान्ताद् धातो: पुन्नाम्नि करणा-ऽऽधारे घञ् स्यात् । वेद: ।।१३२।। अवात् तृ-स्तृभ्याम् ।५।३।१३३॥ आभ्यामवपूर्वाभ्यां करणा-ऽऽधारयोः पुनाम्नि घञ् स्यात् । अवतारः , अवस्तारः ॥१३३॥ न्याया-ऽऽवाया-ऽध्यायोद्याव-संहारा-ऽवहारा-ऽऽधार-दार-जारम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy