________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
।५।३।१३४॥
एते पुनाम्नि करणा-ऽऽधारयोर्घजन्ता निपात्यन्ते । न्याय: , आवाय: , अध्यायः , उद्यावः , संहारः , अवहारः , आधार: , दाराः , जारः ॥१३४||
उदकोऽतोये ।५।३।१३५॥ उत्पूर्वादश्चे: पुनाम्नि करणा-ऽऽधारयोर्घञ् स्यात् , न चेत् तोयविषयो धात्वर्थः । तैलोदङ्कः । अतोय इति किम् ? उदकोदञ्चनः ॥१३५।।
_ आनायो जालम् ।५।३।१३६।। आयूर्वात् निय: करणे पुन्नाम्नि जालेऽर्थे घञ् स्यात् । आनायो मत्स्यानाम् ।।१३६।।
खनो ड-डरेके-कवक-घं च ।५।३।१३७॥ खनेः पुनाम्नि करणा-ऽऽधारयोरेते , घञ् च स्युः । आख: , आखर: , आखनिकः , आखनिकवकः , आखन: , आखानः ॥१३७||
इ-कि-श्तिव् स्वरूपा-ऽर्थे ।५।३।१३८॥ धातो: स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः , क्रुधिः , वेत्तिः ; अर्थे यजेरङ्गानि , भुजि: क्रियते , पचति: वृत्तः ।।१३८||
दुः-स्वीपतः कृच्छ्रा-ऽकृच्छ्रार्थे खल् ।५।३।१३९॥ कृच्छ्रवृत्तेर्दुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषद्भ्यां पराद् धातो: खल् स्यात् । दुःशयम् , दुष्करः ; सुशयम् , सुकर: ; ईषच्छयम् , ईषत्करः । कृच्छाकृच्छ्रार्थ इति किम् ? ईषल्लभ्यं धनम् ।।१३९।।
व्यर्थे क प्याद् भू-कृगः ।५।३।१४०॥ कृच्छ्रा-ऽकृच्छ्रार्थेभ्यो दुः-स्वीषद्भ्य: पराभ्यां च्च्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां पराभ्यां यथासङ्ख्यं भू-कृग्भ्यां पर: खल् स्यात् । दुराढ्यंभवम् , स्वायंभवम् , ईषदाढयंभवं भवता ; दुराढ्यंकर: , स्वाढयंकरः , ईषदाढयंकरश्चैत्रस्त्वया । च्व्यर्थ इति किम् ? दुराढयेन भूयते ॥१४०॥
शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽनः ।५।३३१४१॥ १. च्छार्थात् J1, पा३,५, बृहद्धृत्तिं च विना ।। २. कृच्छादिति P2, पा४ । कृच्छार्थाभ्यामिति पा२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org