________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२७७
भूयात् । शाप इति किम् ? अकृति: पटस्य ।।११७||
___ ग्ला-हा-ज्यः ।५।३।११८॥ एभ्यः स्त्रियां भावा-ऽकोरनि: स्यात् । ग्लानिः , हानिः , ज्यानिः ॥११८॥
प्रश्ना-ऽऽख्याने वेञ् ।५।३।११९॥ प्रश्ने आख्याने च गम्ये स्त्रियां भावा-ऽकोर्धातोरिञ् वा स्यात् । कां कारिं कारिकां क्रियां कृत्यां कृतिं वा अकार्षी: ? सर्वां कारिं कारिकां क्रियां कृत्यां कृतिं वा अकार्षम् ॥११९।।
पर्यायाऽर्हर्णोत्पत्तौ च णकः ।५।३।१२०॥ एष्वर्थेषु प्रश्ना-ऽऽख्यानयोश्च गम्ययो: स्त्रियां भावा-ऽकोर्धातोर्णकः स्यात् । भवत आसिका , भवत: शायिका , अर्हसि त्वमिक्षुभक्षिकाम् , इक्षुभक्षिकां मेधारयसि , इक्षुभक्षिका में उदपादि, कांकारिकामकार्षीः ? सर्वां कारिकामकार्षम् ||१२०||
नाम्नि पुंसि च ।५।३११२१॥ धातो: परो भावा-ऽकों: स्त्रियां संज्ञायां णक: स्यात् , यथालक्ष्यं पुंसि च । प्रच्छर्दिका , शालभञ्जिका , अरोचकः ॥१२१॥
भावे ।५।३।१२२॥ धात्वर्थनिर्देशे स्त्रियां धातोर्णक: स्यात् । शायिका ॥१२२।।
क्लीबे क्तः ।५।३।१२३॥ नपुंसके भावे धातो: क्त: स्यात् । हसितं तव । क्लीबे इति किम् ? हास: ||१२३।।
___ अनट् ।५।३।१२४॥ क्लीबे भावेऽर्थे धातोरनट् स्यात् । गमनम् ।।१२४॥
यत्कर्मस्पर्शात् करृङ्गसुखं ततः ।५।३।१२५॥ येन कर्मणा संस्पृष्टस्य कर्तुरङ्गस्य सुखं स्यात् तत: पराद्धातो: क्लीबे भावेऽनट स्यात् । पय:पानं सुखम् । कर्मेति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शादिति १. भवतः शायिका P2 पासं२ विना नास्ति ।। २. मे P2,P3 पा१,३,४ विना नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org