________________
२७६
स्वोपज्ञलघुवृत्तिविभूषितं
।५।३।१०९॥
एभ्यो ण्यन्तेभ्य: स्त्रियां भावा-ऽकोरङ् स्यात् । भीषा , भूषा , चिन्ता , पूजा , कथा , कुम्बा , चर्चा , स्पृहा , तोला , दोला ॥१०९।।
उपसर्गादातः ।५।३।११०॥ उपसर्गपूर्वाद् आदन्तात् स्त्रियां भावा-ऽकोरङ् स्यात् । उपदा । उपसर्गादिति किम् ? दत्तिः ॥११०॥
णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः ।५।३।१११॥ ण्यन्ताद् वेत्त्यादिभ्यश्च स्त्रियां भावा-ऽकोरन: स्यात् । कारणा , वेदना , आसना , श्रन्थना , घट्टना , वन्दना ॥१११।।
इषोऽनिच्छायाम् ।५।३।११२॥ अनिच्छार्थाद् इषेः स्त्रियां भावा-ऽकरन: स्यात् । अन्वेषणा । अनिच्छायामिति किम् ? इष्टिः ।।११२।।
पर्यधेर्वा ।५।३।११३॥ आभ्यां परादनिच्छार्थाद् इर्भावा-ऽकों: स्त्रियामनो वा स्यात् । पर्येषणा , परीष्टिः ; अध्येषणा , अधीष्टिः ॥११३।।
क्रुत्संपदादिभ्यः विप् ।५।३।११४॥ क्रुधादिभ्योऽनुपसर्गेभ्य: , पदादिभ्यश्व समादिपूर्वेभ्य: स्त्रियां भावा-ऽकों: क्विप् स्यात् । क्रुत् , युत् ; संपत् , विपत् ।।११४।।
भ्यादिभ्यो वा ।५।३।११५॥ एभ्य: स्त्रियां भावा-ऽकों: विप् वा स्यात् । भी: , भीति: ; ह्री: , ह्रीतिः ।।११५||
व्यतिहारेऽनीहादिभ्यो ञः ।५।३।११६॥ व्यतीहारविषयेभ्य ईहादिवर्जेभ्यो धातुभ्य: स्त्रियां ञः स्यात् , बाहुलकाद् भावे । व्यावक्रोशी । अनीहादिभ्य इति किम् ? व्यतीहा , व्यतीक्षा ॥११६||
नजोऽनिः शापे ।५।३।११७॥ नञः पराद्धातो: शापे गम्ये भावा-ऽकों: स्त्रियाम् अनि: स्यात् । अजननिस्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org