________________
स्वोपज्ञलघुवृत्तिविभूषितं
अन्तर्द्धिः ।५।३।८९॥ अन्त:पूर्वाद् धागो भावा-ऽकों: कि: स्यात् । अन्तर्द्धि: ।।८।।
अभिव्याप्तौ भावेऽन-जिन् ।५।३।९०॥ अभिव्याप्तौ गम्यायां धातोर्भावेऽन-जिनौ स्याताम् । संरवणम् , सांराविणम् । अभिव्याप्ताविति किम् ? संरावः ॥९०।।
स्त्रियां क्तिः ।५।३।९१॥ धातोर्भावा-ऽकों: स्त्रियां क्ति: स्यात् । कृतिः । स्त्रियामिति किम् ? कार:
॥९
॥
वादिभ्यः ।५।३।९२॥ एभ्यो धातुभ्या भावा-ऽकों: स्त्रियां क्ति: स्यात् । श्रुतिः , प्रतिश्रुत् , संपत्तिः , संपत् ।।९२॥
समिणासुगः ।५।३।९३॥ संपूर्वादिण आङ्पूर्वात सुगच भावा-ऽकों: स्त्रियां क्ति: स्यात् । समिति: , आसुतिः ॥९३।।
साति-हेति-यूति-जूति-ज्ञप्ति-कीर्त्तिः ।५।३।९४॥ एते भावा-ऽकों: क्न्यन्ता निपात्यन्ते । साति: , हेति: , यूति: , जूति: , ज्ञप्ति: , कीर्तिः ॥१४॥
गा-पा-पचो भावे ।५।३।९५॥ एभ्यो भावे स्त्रियां ति: स्यात् । सङ्गीति: , प्रपीति: , पक्तिः ॥९५।।
स्थो वा ।५।३।९६॥ स्थो भावे स्त्रियां क्तिर्वा स्यात् । प्रस्थितिः , आस्था ।।९६।।
आस्यटि-व्रज्-यजः क्यप् ।५।३।९७॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्या , अट्या , व्रज्या , इज्या ॥९७||
भृगो नाम्नि ।५।३।९८॥ भृगो भावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या । नाम्नीति किम् ? भृति: ।।९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org