________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२७३
चितिर्यज्ञेऽग्निविशेषस्तदाधारो वा , आकायमग्निं चिन्वीत ; कायो देहः , ऋषिनिकाय: ; उपसमाधानपर्युपरि राशीकरणम् , गोमयनिकाय: ॥७९||
सद्धेऽनूइँ ।५।३।८०॥ नास्ति कस्यचिदुपरि किश्चिद् यस्मिन् सोऽनूर्ध्वः , तस्मिंश्चेत् प्राणिसमुदायेऽर्थे भावा-ऽकोंर्घञ् स्यात् , तद्योगे चाऽऽदे: क् । तार्किकनिकाय: । सङ्घ इति किम् ? सारसमुच्चयः । अनूर्ध्व इति किम् ? शूकरनिचयः ।।८०।।
माने ।५।३।८१॥ माने गम्ये धातोर्भावा-ऽकोंर्घञ् स्यात् । एको निष्पावः , समित्संग्राह: । मान इति किम् ? निश्चयः ॥८१।।
स्थादिभ्यः कः ।५।३।८२॥ एभ्यो भावा-ऽकों: क: स्यात् । आखूत्थो वर्त्तते , प्रस्थः , प्रपा ||८२||
ट्वितोऽथुः ।५।३।८३॥ ट्वितो धातोर्भावा-ऽकोरथुः स्यात् । वेपथुः ॥८३।।
ड्वितस्बिमक् तत्कृतम् ।५।३।८४॥ ड्वितो धातोर्भावा-ऽकोंस्त्रिमक् स्यात् , तेन धात्वर्थेन कृतमित्यर्थे । पक्किमम्
॥८४||
यजि-स्वपि-रक्षि-यति-प्रच्छो नः ।५।३।८५॥ ___ एभ्यो भावा-ऽकर्बोर्न: स्यात् । यज्ञः , स्वप्नः , रक्ष्णः , यत्नः , प्रश्न:
||८५||
विच्छो नङ् ।५।३।८६॥ विच्छे वा-ऽकोर्नङ् स्यात् । विश्नः।।८६।।
उपसर्गाद् दः किः ।५।३।८७ . उपसर्गपूर्वाद् दासंज्ञाद् भावा-ऽकों: कि: स्यात् । आदि: , निधिः ।।८७||
व्याप्यादाधारे ।५।३।८८॥ व्याप्यात् पराद् दासंज्ञादाधारे कि: स्यात् । जलधिः ॥८८|| १. कुतश्चिदुपरि किञ्चिद् पा१,३,४,५, P3 || २. कः J2 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org