SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २७२ स्वोपज्ञलघुवृत्तिविभूषितं विपूर्वात् सो गायत्र्यादिसंज्ञाविषये घञ् स्यात् । विष्टारपङ्क्तिः ॥७०।। क्षु-श्रोः ।५।३।७१॥ विपूर्वाभ्यामाभ्यां भावा-ऽकोंर्घञ् स्यात् । विक्षाव: , विश्रावः ॥७१।। न्युदो ग्रः ।५।३।७२॥ आभ्यां पराद् ग्रो भावा-ऽकोंर्घञ् स्यात् । निगारः , उद्गारः ॥७२।। किरो धान्ये ।५।३।७३॥ न्युत्पूर्वात् किरतेर्धान्यविषयार्थाद् भावा-ऽकोंर्घञ् स्यात् । निकारः , उत्कारो धान्यस्य । धान्य इति किम् ? फलनिकरः ।।७३।। नेषुः ।५।३।७४॥ निपूर्वाद् वुर्धान्यविषयेऽर्थे भावा-ऽकोंर्घञ् स्यात् । नीवारा ब्रीहयः ॥७४।। इणोऽभ्रेषे ।५।३।७५॥ स्थितेरचलनमभ्रेषः , तद्विषयार्थाद् निपूर्वादिणो भावा-ऽकोंर्घञ् स्यात् । न्यायः । अभ्रेष इति किम् ? न्ययं गतश्चौरः ॥७५।। परेः क्रमे ।५।३।७६॥ क्रमः परिपाटिः , तद्विषयार्थात् परिपूर्वादिणो भावा-ऽकोंर्घञ् स्यात् । तव पर्यायो भोक्तुम् । क्रम इति किम् ? पर्ययो गुरोः ॥७६।। व्युपात् शीङः ।५।३।७७॥ आभ्यां परात् क्रमविषयार्थात् शीडो भावा-ऽकोंर्घञ् स्यात् । तव राजविशाय: , मम राजोपशाय: । क्रम इति किम् ? विशयः ॥७७|| हस्तप्राप्ये चेरस्तेये ।५।३।७८॥ हस्तेन प्राप्तुं शक्यं हस्तप्राप्यम् , तद्विषयात् चिगो भावा-ऽकोंर्घञ् स्यात् , न चेत् चेरर्थश्चौर्येण । पुष्पप्रचायः । हस्तप्राप्य इति किम् ? पुष्पप्रचयं करोति वृक्षाग्रे । अस्तेय इति किम् ? स्तेयेन पुष्पप्रचयं करोति ।।७८॥ चिति-देहा-ऽऽवासोपसमाधाने कश्वाऽऽदेः ।५।३॥७९॥ एष्वर्थेषु चेर्भावा-ऽकोंर्घञ् स्यात् , तद्योगे च चेरादेः क् । चीयत इति १. विशेषे पा१ पासं२ पा३, P3 बृहद्वृत्तौ च ।। २. कः पा२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy