________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२७१
, यवः , याव: ; दव: , दाव: ; द्रवः , द्राव: । अनुपसर्गादिति किम् ? प्रणय: ॥६॥
वोदः ।५।३।६१॥ उत्पूर्वात् नियो भावा-ऽकोंर्घञ् वा स्यात् । उन्नाय: , उन्नय: ॥६१।।
अवात् ।५।३।६२॥ अवपूर्वात् नियो भावा-ऽकोंर्घञ् स्यात् । अवनाय: ॥६२।।
परे ते ।५।३।६३॥ परिपूर्वाद् नियो द्यूतविषयार्थाद् भावा-ऽकोंर्घञ् स्यात् । परिणायेन शारीन् हन्ति । द्यूत इति किम् ? परिणयोऽस्याः ॥६३।।
भुवोऽवज्ञाने वा ।५।३।६४॥ परिपूर्वा भुवोऽवज्ञानार्थाद् भावा-ऽकोंर्घञ् वा स्याद् । परिभाव: , परिभव: । अवज्ञान इति किम् ? समन्ताद् भूतिः परिभवः ।।६४||
यज्ञे ग्रहः ।५।३॥६५॥ । परिपूर्वाद् ग्रहेर्यज्ञविषये भावा-ऽकोंर्घञ् स्यात् । पूर्वपरिग्राह: । यज्ञ इति किम् ? परिग्रहोऽर्थस्य ॥६५।।
संस्तोः ॥५॥३॥६६॥ संपूर्वात् स्तोर्भावा-ऽकऊर्यज्ञविषये घञ् स्यात् । संस्ताव: छन्दोगानाम् ॥६६।।
प्रात् सु-द्रु-स्तोः ।५।३।६७॥ प्रात् परेभ्य एभ्यो भावा-ऽकोंर्घञ् स्यात् । प्रस्राव: , प्रद्राव: , प्रस्तावः ॥६७||
अयज्ञे स्त्रः ।।३।६८॥ प्रपूर्वात् स्त्रो भावा-ऽकोंर्घञ् स्यात् , न चेद् यज्ञविषयः । प्रस्तारः । अयज्ञ इति किम् ? बर्हिष्प्रस्तरः ॥६८।।
वेरशब्दे प्रथने ।५।३।६९॥ वे: परात् स्त्रोऽशब्दविषये विस्तीर्णत्वेऽर्थे घञ् स्यात् । विस्तार: पटस्य । प्रथन इति किम् ? तृणस्य विस्तरः । अशब्द इति किम् ? वाक्यविस्तरः ||६९।।
छन्दोनाम्नि ।५।३७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org