________________
स्वोपज्ञलघुवृत्तिविभूपितं
। वर्षविघ्ने इति किम् ? अवग्रहोऽर्थस्य ॥५०॥
___ प्राद् रश्मि-तुलासूत्रे ।५।३।५१॥ प्रपूर्वाद् ग्रहे रश्मौ तुलासूत्रे चार्थे भावा-ऽकोरल् वा स्यात् । प्रग्रहः , प्रग्राह: ||५||
_वृगो वस्त्रे ।५।३।५२॥ प्रपूर्वाद् वृगो वस्त्रविशेषेऽर्थे भावा-ऽकोरल् वा स्यात् । प्रवरः , प्रावार ; वस्त्र इति किम् ? प्रवरो यतिः ।।५२||
उदः श्रेः ।५।३।५३॥ उत्पूर्वात् श्रेर्भावा-ऽकोरल् वा स्यात् । उच्छ्रयः , उच्छ्रायः ।।५३।।
यु-पू-द्रोर्घञ् ।५।३॥५४॥ उत्पूर्वेभ्य एभ्यो भावा-ऽकोंर्घञ् स्यात् । उद्याव: , उत्पाव: , उद्रावः ॥५४||
ग्रहः ।५।३॥५५॥ उत्पूर्वाद् ग्रहेर्भावा-ऽकोंर्घञ् स्यात् । उद्ग्राहः ॥५५।।
न्यवाच्छापे ।५।३५६॥ आभ्यां पराद् ग्रहेराक्रोशे गम्ये भावा-ऽकोंर्घञ् स्यात् । निग्राह: , अवग्राहो वा ते जाल्म ! भूयात् । शाप इति किम् ? निग्रहश्चौरस्य ॥५६।।
प्राल्लिप्सायाम् ।५।३।५७॥ प्रपूर्वाद् ग्रहेर्लिप्सायां गम्यायां भावा-ऽकोंर्घञ् स्यात् । पात्रप्रग्राहेण चरति पिण्डपातार्थी भिक्षुः । लिप्सायामिति किम् ? सुव: प्रग्रह: शिष्यस्य ॥५७।।
समो मुष्टौ ।५।३।५८॥ संपूर्वाद् ग्रहेसृष्टिविषये धात्वर्थे भावा-ऽकोंर्घञ् स्यात् । संग्राहो मल्लस्य । मुष्टाविति किम् ? संग्रह: शिष्यस्य ।।५८।।
यु-दु-द्रोः ।५।३।५९॥ संपूर्वेभ्य एभ्यो भावा-ऽकोंर्घञ् स्यात् । संयावः , संदाव: , संद्रावः ।।५९।।
नियश्चाऽनुपसर्गाद् वा ।५।३।६०॥ अनुपसर्गात् नियो यु-दु-द्रोश्च भावा-कोंर्घञ् वा स्यात् । नय: , नाय:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org