SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २६९ निपात्यते । समाय: प्राणिद्यूतम् , आह्वय: संज्ञा ॥४१॥ __न्यभ्युप-वेर्वाश्चोत् ।५।३॥४२॥ एभ्यः पराद् ह्वो भावा-ऽकोरल् स्यात् , तद्योगे वा उश्च । निहवः , अभिहव: , उपवहः विहवः ॥४२॥ आङो युद्धे ।५।३॥४३॥ आङो ह्वो युद्धेऽर्थे भावा-ऽकोरल् स्यात् , वा उश्च । आहवो युद्धम् । युद्ध इति किम् ? आह्वायः ॥४३|| आहावो निपानम् ।५।३॥४४॥ निपानं पश्वादिपानार्थो जलाधारः , तस्मिन्नर्थे आयूर्वाद् ह्वो भावा-ऽकोरल् , आहावादेशश्च निपात्यते । आहावो वीनाम् ॥४४॥ भावेऽनुपसर्गात् ।५।३।४५॥ अनुपसर्गाद् भावे ह्वोऽल् स्यात् , वा उश्च । हवः । भाव इति किम् ? व्याप्ये हायः । अनुपसर्गादिति किम् ? आह्वायः ॥४५॥ हनो वा वध् च ।५।३॥४६॥ अनुपसर्गाद् हन्तेर्भावेऽल् वा स्यात् , तद्योगे च हनो वध् । वधः , घात: ॥४६॥ व्यध-जप-मयः ॥५॥३॥४७॥ एभ्योऽनुपसर्गेभ्यो भावा-ऽकोरल् स्यात् । व्यध: , जपः , मदः ।।४७|| नवा कण-यम-हस-स्वनः ।५।३॥४८॥ अनुपसर्गेभ्य एभ्यो भावा-कोरल् वा स्यात् । कण: , काण: ; यम: , यामः ; हस: , हास: ; स्वनः , ग्वानः ॥४८|| आङो रु-प्लाः ।५।३।४९॥ आङः पराभ्यां रु-प्लुभ्यां भावा-ऽकोरल् वा स्यात् । आरव: , आराव: 3; आप्लव: , आप्लाव: ॥४९|| वर्षविघ्नेऽवाद् ग्रहः ।५।३॥५०॥ अवपूर्वाद् ग्रहेवर्षविघ्नेऽर्थे भावा-ऽकोरल् वा स्यात् । अवग्रहः , अवग्राह: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy