________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२६५
गम्यायां वर्त्यदर्थाद् धातोर्वर्तमाना वा स्यात् । को भवतां भिक्षां ददाति , दास्यति , दाता वा ? एवं कतर: कतम: । किंवृत्त इति किम् ? भिक्षां दास्यति । लिप्सायामिति किम् ? क: पुरं यास्यति ? ||९||
लिप्स्यसिद्धौ ।५।३।१०॥ लब्धुमिष्यमाणाद् भक्तादेः सिद्धौ फलावाप्तौ गम्यायां वर्त्यदर्थाद् धातोर्वर्त्त माना वा स्यात् । यो भिक्षां ददाति , दास्यति , दाता वा , स स्वर्गलोकं याति , यास्यति , याता वा ॥१०॥
पञ्चम्यर्थहेतौ ।५।३।११॥ पञ्चम्यर्थः प्रैषादि: तस्य हेतुरुपाध्यायाऽऽगमनादिः , तस्मिन्नर्थे वर्त्यति वर्तमानाद् धातोर्वर्त्तमाना वा स्यात् । उपाध्यायश्चेद् आगच्छति , आगमिष्यति , आगन्ता वा , अथ त्वं सूत्रमधीष्व ॥११।।
सप्तमी चोर्ध्वमौहूर्त्तिके ।५।३।१२॥ ऊर्ध्वं मुहूर्ताद् भव ऊर्ध्वमौहूर्तिक: , तस्मिन् पञ्चम्यर्थहेतौ वय॑त्यर्थे वर्त्तमानाद् धातोः सप्तमी वर्तमाना च वा स्यात् । ऊर्ध्वं मुहूर्तादुपाध्यायश्चेदागच्छेत् , आगच्छति , आगमिष्यति , आगन्ता वा , अथ त्वं तर्कमधीष्व ।।१२।।
क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती।५।३।१३॥ यस्माद् धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्थाद् धातोस्तुमादयः स्युः । कर्तुम् , कारक: , करिष्यामीति वा याति । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटा: । क्रियार्थायामिति किम् ? धावतस्ते पतिष्यति वास: ।।१३।।
कर्मणोऽण् ।५।३॥१४॥ क्रियायां क्रियायामुपपदे कर्मण: पराद् वय॑दर्थाद् धातोरण् स्यात् । कुम्भकारो याति ॥१४॥
भाववचनाः ।५।३।१५॥ भाववचना पञ्-क्त्यादयः , ते क्रियायां क्रियार्थायामुपपदे वर्त्यदर्थाद्धातो: स्युः । पाकाय , पक्तये , पचनाय वा याति ॥१५|| १. चौर्ध्व पा४,५ ।। २. औज़ J1,3, P1 पा४,५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org