SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २६४ स्वोपज्ञलघुवृत्तिविभूषितं [ तृतीय: पाद: ] वर्त्यति गम्यादिः ॥५॥३॥१॥ गम्यादयो भविष्यत्यर्थे इन्नाद्यन्ता: साधव: स्युः । गमी ग्रामम् , आगामी ॥१॥ वा हेतुसिद्धौ क्तः ।५।३॥२॥ वर्त्यदर्थाद् धातोर्धात्वर्थहेतोः सिद्धौ सत्यां क्तो वा स्यात् । मेघश्चेद् वृष्टः सम्पन्ना: सम्पत्स्यन्ते वा शालयः ॥२॥ कषोऽनिटः ।५।३।३।। कषेः कृच्छ्र-गहनयोरनिड्धातोर्वर्ण्यदर्थात् क्त: स्यात् । कष्टम् , कष्टा दिशस्तमसा । अनिट इति किम् ? कषिता: शत्रवः ।।३३।। भविष्यन्ती ।५।३॥४॥ वर्यदर्थाद् धातोर्भविष्यन्ती स्यात् । भोक्ष्यते ॥४|| ___ अनद्यतने श्वस्तनी।५।३१५॥ नास्त्यद्यतनो यत्र तस्मिन् वय॑त्यर्थे वर्तमानाद् धातो: श्वस्तनी स्यात् । कर्ता । अनद्यतन इति किम् ? अद्य श्वो वा गमिष्यति ।।५|| परिदेवने ।५।३।६॥ __ अनुशोचने गम्ये वर्त्यदर्थाद् धातो: श्वस्तनी स्यात् । इयं नु कदा गन्ता यैवं पादौ निधत्ते ? ॥६॥ पुरा-यावतोर्वर्त्तमाना ।५।३।७॥ अनयोरुपपदयोर्वर्ण्यदर्थाद् धातोर्वर्तमाना स्यात् । पुरा भुङ्क्ते , यावद् भुङ्क्ते |७|| कदा-कोर्नवा ।५।३।८॥ अनयोरुपपदयोर्वर्ण्यदर्थाद् धातोर्वर्त्तमाना वा स्यात् । कदा भुङ्क्ते , कदा भोक्ष्यते , कदा भोक्ता ; कर्हि भुङ्क्ते , कर्हि भोक्ता , कर्हि भोक्ष्यते ॥८॥ किंवृत्ते लिप्सायाम् ।५।३।९।। विभक्ति-डतर-डतमान्तस्य किमो वृत्तं किंवृत्तम् , तस्मिन्नुपपदे प्रष्टुर्लिप्सायां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy