________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
लू-धू-सू-खन-चर-सहाऽर्तेः ।५।२१८७॥ एभ्य: सदर्थेभ्य: करणे इत्र: स्यात् । लवित्रम् , धुवित्रम् , सवित्रम् , खनित्रम् , चरित्रम् , सहित्रम् , अरित्रम् ।।८७||
नी-दाव्-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्र ।५।२।८८॥ एभ्य: सदर्थेभ्य: करणे त्रट् स्यात् । नेत्रम् , दात्रम् , शस्त्रम् , योत्रम् , योक्त्रम् , स्तोत्रम् , तोत्रम् , सेत्रम् , सेक्त्रम् , मेढ़म् , पत्त्रम् , पात्री , नदी ।।८८||
हल-क्रोडाऽऽस्ये पुवः ।५।२।८९॥ सदर्थात् पुवो हल-क्रोडयोर्मुखे करणे त्रट् स्यात् । पोत्रम् ॥८९||
दंशेस्त्रः ।५२।९०॥ सदर्थाद् दंशे करणे त्र: स्यात् । दंष्ट्रा ॥९०॥
. धात्री।५।२।९१॥ ट्धेर्धागो वा कर्मणि त्रट् स्यात् । धात्री ॥११॥
ज्ञानेच्छा-ऽर्चार्थ-जीच्छील्यादिभ्यः क्तः ।५।२।९२॥ ज्ञानेच्छा-ऽर्चार्थेभ्यो जीभ्यः शीलादिभ्यश्च सदर्थेभ्य: क्त: स्यात् । राज्ञां ज्ञात: , राज्ञामिष्टः , राज्ञां पूजितः , मिन्नः , शीलित: , रक्षितः ॥९२||
उणादयः ।५।२।९३॥ सदर्थाद् धातोरुणादयो बहुलं स्युः । कारुः , ईडः ॥९३॥
__ [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] पञ्चमस्याध्यायस्य द्वितीय: पाद: समाप्त: ।।५।२।।
अकृत्वाऽऽसननिर्बन्धमभित्त्वा पावनी गतिम् ।
सिद्धराजः परपुरप्रवेशवशितां ययौ ॥१८॥ १. समाप्तः P1 विना नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org