________________
२६२
स्वोपज्ञलघुवृत्तिविभूषितं
, नश्वरः ||७७||
गत्वरः ।५।२।७८॥ गमेष्ट्वरप् मश्च त् निपात्यते । गत्वरी ।।७८।।
स्म्यजस-हिंस-दीप-कम्प-कम-नमो रः ।५।२।७९॥ एभ्य: शीलादिसदर्थेभ्यो र: स्यात् । स्मेरम् , अजस्रम् , हिंस्रः , दीप्रः , कम्प्रः , कम्रः , नम्रः ॥७९॥
तृषि-धृषि-स्वपो नजिङ् ।५।२।८०॥ एभ्य: शीलादिसदर्थेभ्यो नजिङ् स्यात् । तृष्णक् , धृष्णक् , स्वप्नजौ।।८०||
स्थेश-भास-पिस-कसो वरः ।५।२।८१॥ एभ्य: शीलादिसदर्थेभ्यो वर: स्यात् । स्थावर: , ईश्वरः , भास्वरः , पेस्वर: , विकस्वरः ।।८१॥
यायावरः ।५।२।८२॥ यातेर्यङन्तात् शीलादिसदाद् वर: स्यात् । यायावरः |८२।।
दिद्युद्-दहृद्-जगज्जुहू-वाक्-प्राट्-धी-श्री-द्रू-मू-ज्वायतस्तू-कटपूपब्रिाड्-भ्राजादयः किपः ।५।२।८३॥ ___ एते किबन्ताः शीलादौ सत्यर्थे निपात्यन्ते । दिद्युत् , ददृत् , जगत् , जुहू: , वाक् , तत्त्वप्राट् , धीः , श्री: , शतद्रूः , मू: , जू: , आयतस्तू: , कटपूः , परिव्राट् , विभ्राट् , भाः ॥८३॥
शं-सं-स्वयं-वि-प्राद् भुवो डुः ।५।२।८४॥ • एभ्यः पराद् भुवः गदर्थाद् डुः स्यात् । शम्भु: , सम्भुः , स्वयम्भुः , विभुः , प्रभुः ॥८४||
पुव इस्रो दैवते ।५।२।८५॥ सदर्थात् पुवो दैवते कर्तरि इत्र: स्यात् । पवित्रोऽर्हन् ।।८५||
ऋषि-नाम्नोः करणे ।५।२।८६॥ ऋषि-संज्ञयो: सदर्थात् पुव: करणे इत्र: स्यात् । पवित्रोऽयमृषि: , दर्भ: पवित्रः ।।८६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org