________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२६१
निन्द-हिंस-क्लिश-खाद-विनाशि-व्याभाषा-ऽसूया-ऽनेकस्वरात् ।५।२।६८॥
एभ्य: शीलादिसदर्थेभ्यो णक: स्यात् । निन्दक: , हिंसक: , क्लेशक: , खादक: , विनाशकः , व्याभाषक: , असूयक: , चकासकः ।।६८॥
___ उपसर्गाद् देव-देवि-क्रुशः ।५।२।६९॥ उपसर्गात् परेभ्य: शीलादिसदर्थेभ्य एभ्यो णक: स्यात् । आदेवकः , परिदेवक: , आक्रोशकः ॥६९।।
___ वृङ्-भिक्षि-लुण्टि-जल्पि-कुट्टाट्टाकः ।५।२।७०॥ एभ्य: शीलादिसदर्थेभ्य ष्टाक: स्यात् । वराकी , भिक्षाक: , लुण्टाकः , जल्पाक: , कुट्टाकः ।।७०॥
प्रात् सू-जोरिन् ।५।२।७१॥ आभ्यां प्रात् पराभ्यां शीलादिसदाभ्याम् इन् स्यात् । प्रसवी , प्रजवी ।।७१।।
जीण-ह-क्षि-विश्रि-परिभू-वमा-ऽभ्यमाव्यथः ।५।२।७२॥ एभ्य: शीलादिसदर्थेभ्य इन् स्यात् । जयी , अत्ययी , आदरी , क्षयी , विश्रयी , परिभवी , वमी , अभ्यमी , अव्यथी ।।७२।।
। सृ-घस्यदो मरक् ।५।२।७३॥ एभ्य: शीलादिसदर्थेभ्यो मरक् स्यात् । सृमरः , घस्मरः , अद्मरः ॥७३॥
भञ्जि-भासि-मिदो घुरः ।५।२।७४॥ एभ्य: शीलादिसदर्थेभ्यो घुर: स्यात् । भङ्गुरम् , भासुरम् , मेदुरम् ।।७४।।
वेत्ति-च्छिद-भिदः कित् ।५।२।७५॥ एभ्य: शीलादिसदर्थेभ्यः , किद् पुरः स्यात् । विदुरः , छिदुरः , भिदुर:
भियो रु-रुक-लुकम् ।५।२।७६॥ शीलादिसदर्थाद् भिय: कित एते स्युः । भीरुः , भीरुकः , भीलुकः ॥७६।।
सृ-जीण-नशष्ट्वरप् ।५।२।७७॥ एभ्य: शीलादिसदर्थेभ्यः कित् ट्वरप् स्यात् । सृत्वरी , जित्वरी , इत्वर:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org