SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २५६ स्वोपज्ञलघुवृत्तिविभूषितं एषु गम्येषु सदर्थाद् धातो: शान: स्यात् । स्त्रियं गच्छमाना: , समश्नाना: , परान् निन्दमाना: ॥२४॥ धारीङोऽकृच्छ्रेऽतृश् ।५।२।२५॥ सुखसाध्ये सत्यर्थे वर्तमानाद्धारेरिङश्च परोऽतृश् स्यात् । धारयन् आचाराङ्गम् , अधीयन् द्रुमपुष्पीयम् ।।२५।। । सुग-द्विषार्हः सत्रि-शत्रु-स्तुत्ये ।५।२।२६॥ सदर्थेभ्य एभ्यो यथासङ्ख्यं सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश् स्यात् । सर्वे सुन्वन्तः , चौरं द्विषन् , पूजामर्हन् । एष्विति किम् ? सुरां सुनोति ।।२६।। तृन् शील-धर्म-साधुषु ।५।२।२७॥ शीलादिसदर्थाद् धातोस्तृन् स्यात् । कर्ता कटम् , वधूमूढां मुण्डयितार: श्राविष्ठायना: , गन्ता खेलः ॥२७|| भ्राज्यलङ्कग्-निराकृग्-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजना-ऽपत्रप इष्णुः ।५।२।२८॥ एभ्य: शीलादिसदर्थेभ्य इष्णु: स्यात् । भ्राजिष्णुः , अलङ्करिष्णु: , निराकरिष्णु: , भविष्णुः , सहिष्णु: , रोचिष्णुः , वर्त्तिष्णुः , वर्द्धिष्णुः , चरिष्णुः , प्रजनिष्णु: , अपत्रपिष्णुः ॥२८|| ___ उदः पचि-पति-पदि-मदेः ।५।२।२९॥ उत्पूर्वेभ्य एभ्यः शीलादिसदर्थेभ्य इष्णु: स्यात् । उत्पचिष्णुः , उत्पतिष्णु: , उत्पदिष्णु: , उन्मदिष्णु: ।।२९।। भू-जेः ष्णुक् ।५।२।३०॥ आभ्यां शीलादिसदाभ्यां ष्णुक् स्यात् । भूष्णु: , जिष्णुः ॥३०॥ स्था-ग्ला-म्ला-पचि-परिमृजि-क्षेः स्युः ।५।२॥३१॥ एभ्य: शीलादिसदर्थेभ्य: सु: स्यात् । स्थास्नुः , ग्लास्नुः , म्लास्नुः , पक्ष्णु: , परिमाणुः , क्षेष्णुः ॥३१।। । त्रसि-गृधि-धृषि-क्षिपः क्रुः ।५।२॥३२॥ एभ्य: शीलादिसदर्थेभ्य: क्नु: स्यात् । त्रस्नुः , गृचः , धृष्णुः , क्षिप्नुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy