SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २५५ भूतानद्यतनेऽर्थे वर्तमानाद्धातो: पुरादावुपपदे अद्यतनी वा स्यात् । अवात्सुरिह पुरा छात्रा: , पक्षे-अवसन् , ऊषुर्वा ; तदाऽभाषिष्ट राघवः , पक्षे-अभाषत , बभाषे ||१५|| स्मे च वर्तमाना ।५।२।१६॥ भूतानद्यतनेऽर्थे वर्तमानाद् धातो: स्मे पुराऽऽदौ चोपपदे वर्तमाना स्यात् । पृच्छति स्म पुरोधसम् , वसन्तीह पुरा छात्रा: , अथाऽऽह वर्णी ॥१६।। ननौ पृष्टोक्तौ सद्वत् ।५।२।१७॥ ननावुपपदे पृष्टप्रतिवचने भूतेऽर्थे वर्तमानाद् धातोर्वर्त्तमानेव वर्तमाना स्यात् । किमकार्षीः कटं चैत्र ! ननु करोमि भोः , ननु कुर्वन्तं मां पश्य ॥१७॥ न-न्वोर्वा ।५।२॥१८॥ न-न्वोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद् धातोर्वा वर्तमाना स्यात् , सा च सद्वत् । किमकार्षीः कटं चैत्र ? न करोमि भोः , न कुर्वन्तं मां पश्य , नाकार्षम् ; नु करोमि भोः ! नु कुर्वाणं मां पश्य , न्वकार्षम् ॥१८॥ सति ।५।२।१९॥ वर्तमानार्थाद् धातोर्वर्त्तमाना स्यात् । अस्ति , कूरं पचति , मांसं न भक्षयति , इहाधीमहे , तिष्ठन्ति पर्वता: ।।१९।। शत्रानशावेष्यति तु सस्यौ ।५।२॥२०॥ सदर्थाद् धातोः शत्रानशौ स्याताम् , भविष्यन्तीविषयेऽर्थे स्ययुक्तौ । यान् , शयानः , यास्यन् , शयिष्यमाण: ।।२०।। तौ माङ्याक्रोशेषु ।५२।२१॥ माङ्युपपदे आक्रोशे गम्ये तौ शत्रानशावेव स्याताम् । मा पचन् वृषलो ज्ञास्यति , मा पचमानोऽसौ मर्तुकामः ।।२१।। .. वा वेत्तेः कसुः ।५।२।२२॥ सदर्थाद् वेत्ते: कसुर्वा स्यात् । तत्त्वं विद्वान् , विदन् ।।२२।। पूङ-यजः शानः ।५।२।२३। आभ्यां सदाभ्यां पर: शान: स्यात् । पवमानः , यजमानः ॥२३।। वयः-शक्ति-शीले ।५।२।२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy