________________
२५२
स्वोपज्ञलघुवृत्तिविभूषितं
, वराहः , आखा ॥१७१।
सु-यजोवनिप् ।५।११७२॥ आभ्यां भूतार्थाभ्यां वनिप् स्यात् । सुत्वानौ , यज्वा ॥१७२।।
जुषोऽतृः ।५।१।१७३॥ जृषेर्भूतार्थाद् अतृ: स्यात् । जरती ॥१७३।।
क्त-क्तवतू ।५।११७४॥ भूतार्थाद् धातोरेतौ स्याताम् । कृतः , कृतवान् ।।१७४।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः समाप्तः ||५|१||
अगणितपञ्चेषुबल: पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासनमूर्तिः श्रीकर्णः कर्ण इव जयति ॥१७||
१. समाप्तः J1 पा२ मध्ये नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org