SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [ द्वितीयः पादः ] श्रु-सद- वस्भ्यः परोक्षा वा |५|२|१|| एभ्यो भूतार्थेभ्यः परोक्षा वा स्यात् । उपशुश्राव उपससाद, अनूवा " पक्षे - उपाश्रौषीत्, उपाशृणोत्; उपासदत्, उपासीदत् ; अन्ववात्सीत् ? अन्ववसत् ॥१॥ , तत्र क्वसु - कानौ तद्वत् |५|२|२| परोक्षामात्रविषये धातोः परौ क्वसु- कानौ स्याताम्, तौ च परोक्षेव । शुश्रुवान् सेदिवान्, ऊषिवान् पेचिवान्, पेचान: ||२|| वेयिवदनाश्वदनूचानम् |५|२|३|| एते भूतेऽर्थे क्वसुकानान्ताः कर्त्तरि वा निपात्यन्ते । समीयिवान्, अनाश्वान् अनूचानः, पक्षे अगात्, उपैत्, उपेयाय, नाशीत्, नाश्नात्, नाऽऽश अन्ववोचत्, अन्ववक्, अन्वब्रवीत्, अनूवाच ॥३॥ अद्यतनी |५|२|४| , भूतार्थाद्धातोरद्यतनी स्यात् । अकार्षीत् ||४|| विशेषाविवक्षा - व्यामिश्र | ५ | २|५|| अद्यतनादिविशेषाविवक्षायां व्यामिश्रणे च सति भूतार्थाद् धातोरद्यतनी स्यात् । रामो वनमगमत्, अद्य ह्यो वाऽभुक्ष्महि ||५|| रात्रौ वसोऽन्त्ययामाऽस्वप्तर्यद्य |५|२| ६ || २५३ , रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी स्यात् स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्त्याऽस्वप्तरि कर्त्तरि स्यात्, अद्यतनेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत् प्रयोगोऽस्ति नाद्यतनान्तरे । अमुत्रावात्सम् । रात्र्यन्त्ययामे तु मुहूर्त्तमपि स्वापे ह्यस्तन्येव - अमुत्रावसमिति || ६ || अनद्यतने ह्यस्तनी |५|२|७|| Jain Education International आ न्याय्याद् उत्थानादा न्याय्याच्च संवेशनाद् अहरुभयतः सार्द्धरात्रं वाऽद्यतनः तस्मिन्नसति भूतार्थाद् धातोर्ह्यस्तनी स्यात् । अकरोत् ||७|| , १. ह्यस्तन्येव पा१ विना नास्ति || For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy