________________
श्रीसिद्धहेमचन्द्रशदीनुशासनम् ___ mitr :-32009
ब्रह्म-भ्रूण-वृत्रात् क्विप् ।५।१११६१॥ एभ्य कर्मभ्यः पराद् भूतार्थाद् हन्ते: क्विप् स्यात् । ब्रह्महा , भ्रूणहा , वृत्रहा ||१६||
कृगः सु-पुण्य-पाप-कर्म-मन्त्र-पदात् ।५।१।१६२॥ सो: पुण्यादेश्च कर्मण: परात् भूतार्थात् कृग: विप् स्यात् । सुकृत् , पुण्यकृत् , पापकृत् , कर्मकृत् , मन्त्रकृत् , पदकृत् ॥१६२।।
सोमात् सुगः ।५।१११६३॥ सोमाद् व्याप्यात् पराद् भूतार्थात् सुगः किम् स्यात् । सोमसुत् ।।१६३।।
__ अग्नेः ।५।१११६४॥ अग्नेया॑प्यात् पराद् भूतार्थाचे: क्विप् स्यात् । अग्निचित् ।।१६४।।
कर्मण्यग्न्यर्थे ।५।१।१६५॥ कर्मण: पराद् भूतार्थाच्चेः कर्मण्यग्न्यर्थे किप् स्यात् । श्येनचित् ।।१६५।।
दृशः कनिप् ।५।१११६६॥ व्याप्यात् पराद् भूतार्थाद् दृशेः क्वनिप् स्यात् । बहुदृश्वा ।।१६६।।
सह-राजभ्यां कृग्-युधेः ।५।१११६७॥ आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगो युधेश्च कनिप् स्यात् । सहकृत्वा , सहयुध्वा , राजकृत्वा , राजयुध्वा ।।१६७।। ।
अनोर्जनेर्डः ।५।१।१६८॥ कर्मण: परादनुपूर्वात् भूतार्थाद् जनेर्डः स्यात् । पुमनुजः ॥१६८||
सप्तम्याः ।५।११६९॥ सप्तम्यन्तात् पराद् भूतार्थाज्जनेर्ड: स्यात् । मन्दुरजः ।।१६९।।
__ अजातेः पञ्चम्याः ।५।१।१७०॥ पञ्चम्यन्तादजात्यर्थात् पराद् भूतार्थाद् जनेर्ड: स्यात् । बुद्धिज: । अजातेरिति किम् ? गजात् जात: ॥१७०॥
क्वचित् ।५।१।१७१॥ उक्तादन्यत्रापि यथालक्ष्यं ड: स्यात् । किञ्जः , अनुजः , स्त्रीजम् , ब्रह्मज्य:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org