________________
स्वोपज्ञलघुवृत्तिविभूषितं
एतौ यथासङ्खयमामात्-पक्कादर्थौ विपणन्तौ साधू स्तः । क्रव्यात्- आममांसभक्षः, क्रव्यादः - पक्कमांसभक्षः || १५१|| त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च । ५।१।१५२। एभ्य उपमानेभ्यो व्याप्येभ्यः पराद् दृशेर्व्याप्य एव टक् सकौ किप् च स्युः
२५०
। त्यादृशः त्यादृक्षः त्यादृक् ; अन्यादृशः अन्यादृक्षः , अन्यादृक् ;
"
"
"
सदृशी, सदृक्षा, सदृक् । व्याप्य इति किम् ? तेनेव दृश्यते || १५२ ||
कर्तुर्णिन् ।५।१।१५३॥
कर्त्रर्थादुपमानात् पराद् धातोर्णिन् स्यात् । उष्ट्रक्रोशी ॥१५३॥ अजातेः शीले |५|१|१५४॥
"
अजात्यर्थाद् नाम्नः पराच्छीलार्थाद् धातोर्णिन् स्यात् । उष्णभोजी प्रस्थायी । अजातेरिति किम् ? शालीन् भोक्ता । शील इति किम् ? उष्णभोजो मन्दः
॥। १५४||
साधौ |५|१|१५५॥
नाम्नः परात् साध्वर्थाद् धातोर्णिन् स्यात् । साधुकारी ॥ १५५ ॥ ब्रह्मणो वदः | ५|१|१५६॥
ब्रह्मणः पराद् वदेर्णिन् स्यात् । ब्रह्मवादी || १५६ || व्रता - ss | ५ | १|१५७॥
अनयोर्गम्ययोर्नाम्नः पराद् धातोर्णिन् स्यात् । स्थण्डिलवर्त्ती, क्षीरपायिण उशीनराः ||१५७||
करणाद् यजो भूते | ५ | १|१५८॥
करणार्थाद् नाम्नः पराद् भूतार्थाद् यजेर्णिन् स्यात् । अग्निष्टोमयाजी || १५८ || निन्द्ये व्याप्यादिन् विक्रियः | ५|१|१५९ ॥
व्याप्याद् नाम्नः परात् भूतार्थाद् विक्रिय: कुत्स्ये कर्त्तरि इन् स्यात् । सोमविक्रयी । निन्द्य इति किम् ? धान्यविक्रायः || १५९ ||
हनो णिन् |५|१|१६०॥
व्याप्यात् पराद् भूतार्थाद् हन्तेर्निन्द्ये कर्त्तरि णिन् स्यात् । पितृघाती || १६० |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org