________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२४९
स्था-पा-ना-त्रः कः ।५।१।१४२॥ नाम्नः परेभ्य एभ्य: क: स्यात् । समस्थ: , कच्छप: , नदीष्णः , धर्मत्रम् ।।१४२।।
शोकापनुद-तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं प्रिया-ऽलस-हस्तिसूचके ।५।१।१४३॥
एते यथासङ्ख्यं प्रियादिष्वर्थेषु कान्ता निपात्यन्ते । शोकापनुद: प्रिय: , तुन्दपरिमृजोऽलस: , स्तम्बेरमो हस्ती , कर्णेजपः खलः । एष्विति किम् ? शोकापनोदो धर्माचार्यः ।।१४३।।
मूलविभुजादयः ।५।१११४४॥ एते कान्ता यथादर्शनं निपात्यन्ते । मूलविभुजो रथ: , कुमुदं कैरवम् ।।१४४।।
दुहेर्डेघः ।५।१।१४५॥ नाम्नः पराद् दुहेर्डध: स्यात् । कामदुघा ॥१४५।।
__ भजो विण् ।५।१११४६॥ नाम्न: पराद् भजेर्विण् स्यात् । अर्धभाक् ॥१४६।।
मन्-वन्-कनिप्-विच् कचित् ।५।१।१४७॥ नाम्नः पराद् धातोरेते यथालक्ष्यं स्युः । मन्-इन्द्रशर्मा । वन्-विजावा । कनिप्-सुधीवा । विच्-शुभंयाः ॥१४७||
किप् ।५।१।१४८॥ नाम्नः पराद् धातो: किप् यथालक्ष्यं स्यात् । उखास्रत् ।।१४८।।
स्पृशोऽनुदकात् ।५।१।१४९॥ उदकवर्जाद् नाम्नः परात् स्पृशे: किप् स्यात् । घृतस्पृक् । अनुदकादिति किम् ? उदकस्पर्शः ।।१४९।।
अदोऽननात् ।५।१।१५०॥ अनवर्जाद् नाम्नः पराददेः विप् स्यात् । आमात् । अनन्नादिति किम् ? अन्नादः ॥१५०॥
क्रव्यात्-क्रव्यादावाम-पक्वादौ ।५।११५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org