________________
स्वोपज्ञलघुवृत्तिविभूषितं
नाम्नः पराद् गमेः खड्-ड-खाः स्युः, विहायसो विहश्च । तुरङ्गः, विहङ्गः , तुरगः, विहगः, सुतङ्गमो मुनिः, तुरङ्गमः, विहङ्गमः ||१३१ || सुग- दुर्गमाधारे ।५।१।१३२॥
२४८
सु-दुर्भ्यां पराद् गमेराधारे डः स्यात् । सुगः, दुर्गः पन्थाः ||१३२|| निर्गो देशे | ५ | १|१३३॥
निष्पूर्वाद् गमेराधारे देशे डः स्यात् । निर्गो देशः ॥ १३३॥ शमो नान्यः | ५ | १|१३४॥
शमो नाम्नः पराद् धातोः संज्ञायाम् अः स्यात् । शम्भवोऽर्हन् । नाम्नीति किम् ? शङ्करी दीक्षा ||१३४||
पार्श्वादिभ्यः शीङः | ५ | १|१३५ ॥
एभ्यो नामभ्यः परात् शीङ: अ: स्यात् । पार्श्वशयः, दिग्धसहशयः ॥१३५॥ ऊर्ध्वादिभ्यः कर्तुः | ५ | १|१३६॥
एभ्यः कर्तृवाचिभ्यः परात् शीङः अः स्यात् । ऊर्ध्वशयः ॥ १३६॥
आधारात् ।५।१।१३७॥
आधारार्थान्नाम्नः परात् शीङः अः स्यात् । खशयः ॥१३७|| चरेष्टः ।५।१।१३८॥
आधारार्थात् परात् चरेष्टः स्यात् । कुरुचरी || १३८ || भिक्षा-सेना - ssदायात् ।५।१।१३९॥
"
एभ्यः परात् चरेष्टः स्यात् । भिक्षाचरी, सेनाचरः, आदायचरः || १३९|| पुरोऽग्रतो ऽग्रेः सः | ५|१|१४०॥
-
Jain Education International
उत्तानशयः
7
एभ्यः परात् सर्त्तेष्टः स्यात् । पुरःसरी अग्रतः सरः, अग्रेसरः || १४० || पूर्वात् कर्तुः | ५ | १|१४१ ॥
पूर्वात् कर्तृवृत्तेः परात् सत्र्त्तेष्टः स्यात् । पूर्वसरः । कर्तुरिति किम् ? पूर्वसार:
॥ १४१ ॥
१. तुरङ्गम: J1 विना नास्ति ||
For Private & Personal Use Only
www.jainelibrary.org