SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४७ बहु-विध्वरुस्तिलात् तुदः ।५।१११२४॥ एभ्य: कर्मभ्यः परात् तुदेः खश् स्यात् । बहुन्तुदः , विधुन्तुदः , अरुन्तुद: , तिलन्तुदः ॥१२४॥ ललाट-वात-शर्धात् तपा-ऽज-हाकः ।५।१।१२५॥ एभ्य: कर्मभ्य: परेभ्यो यथासङ्ख्यं तपा-ऽज-हाग्भ्य: खश् स्यात्। ललाटन्तपः , वातमज: , शर्द्धअहः ॥१२५|| असूर्योग्राद् दृशः ।५।१११२६।। आभ्यां कर्मभ्यां पराद् दृशे: खश् स्यात् । असूर्यम्पश्यः , उग्रम्पश्य: ॥१२६।। इरम्मदः ।५।१।१२७॥ इरापूर्वाद् मदे: खश् श्याभावश्च स्यात् । इरम्मदः ॥१२७|| नग्न-पलित-प्रिया-ऽन्ध-स्थूल-सुभगा-ऽऽढय-तदन्ताच्च्व्य र्थेऽच्वेर्भुवः खिष्णु-खुकञ् ।५।१११२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः पराद् भुव: खिष्णु-खुकञौ स्याताम् । नग्नम्भविष्णुः , नग्नम्भावुक: ; पलितम्भविष्णुः , पलितम्भावुकः ; प्रियम्भविष्णुः , प्रियम्भावुकः ; अन्धम्भविष्णुः , अन्धम्भावुकः , स्थूलम्भविष्णु: , स्थूलम्भावुक: ; सुभगम्भविष्णु: , सुभगम्भावुक: ; आढयम्भविष्णुः , आढ्यम्भावुकः ; तदन्त -सुनग्नम्भविष्णुः , सुनग्नम्भावुक इत्यादि । अच्वेरिति किम् ? आढ्यीभविता ।।१२८|| कृगः खनट करणे।५।१११२९॥ नग्नादिभ्योऽच्यन्तेभ्यश्च्छ्यर्थवृत्तिभ्यः परात् कृग: करणे खनट् स्यात् । नग्नङ्करणं द्यूतम् , पलितङ्करणम् , प्रियङ्करणम् , अन्धङ्करणम् , स्थूलङ्करणम् , सुभगङ्करणम् , आढ्यङ्करणम् , सुनग्नङ्करणम् । च्व्यर्थ इत्येव , नग्नं करोति द्यूतेन ॥१२९॥ भावे चाऽऽशिताद् भुवः खः ।५।१।१३०॥ आशितात् पराद् भुवो भाव-करणयोः खः स्यात् । आशितम्भवस्ते , आशितम्भव ओदनः ॥१३०॥ नाम्नो गमः खड्-डौ च , विहायसस्तु विहः ।५।११३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy