SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २४६ स्वोपज्ञलघुवृत्तिविभूषितं कर्मणः पराद् धारेः संज्ञायां खः स्यात्, धारेश्च धर् | वसुन्धरा भूः ||११३॥ पुरन्दर - भगन्दरौ | ५|१|११४ ॥ एतौ संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्रः, भगन्दरो व्याधिः ||११४ || वाचंयमो व्रते |५|१|११५॥ व्रते गम्ये वाचः कर्मणः पराद् यमेः खो वाचोऽमन्तश्च स्यात् । वाचंयमो व्रती ॥ ११५ ॥ 7 मन्याण्णिन् | ५ | १ | ११६ ॥ कर्मणः पराद् मन्यतेर्णिन् स्यात् । पण्डितमानी बन्धोः || ११६ || कर्तुः खश् ।५।१।११७॥ प्रत्ययार्थात् कर्तुः कर्मणः पराद् मन्यतेः खश् स्यात् । पण्डितम्मन्यः । कर्तुरिति किम् ? पटुमानी चैत्रस्य ॥११७॥ एजेः | ५ | १|११८|| कर्मणः परादेजयतेः खश् स्यात् । अरिमेजयः ॥ ११८ ॥ शुनी-स्तन- मुञ्ज - कूला-ssस्य पुष्पाधेः | ५ | ११११९ ॥ एभ्यः कर्मभ्यः दूधेः : खश् स्यात् । शुनिन्धयः, स्तनन्धयः मुञ्जन्धयः कूलन्धयः, आस्यन्धयः, पुष्पन्धयः ॥ ११९ ॥ नाडी - घटी-खरी - मुष्टि- नासिका - वाताद् ध्मश्च ॥५॥१॥१२०॥ 1 एभ्यः कर्मभ्यः पराद् ध्मः ट्धेश्च खश् स्यात् । नाडिन्धमः, नाडिन्धयः ; घटिन्धमः घटिन्धय: ; खरिन्धमः, खरिन्धयः ; मुष्टिन्धम मुष्टिन्धयः ; वातन्धयः || १२० ॥ नासिकन्धमः, नासिकन्धयः ; वातन्धमः " ? पाणि - करात् |५|१|१२१॥ Jain Education International आभ्यां कर्मभ्यां पराद् ध्मः खश् स्यात् । पाणिन्धमः, करन्धमः || १२१ || कूलादुद्रुजोद्वहः | ५|१|१२२॥ " कूलात् कर्मणः पराभ्यामाभ्यां खश् स्यात् । कूलमुद्रुजः, कूलमुद्वहः ।।१२२|| वहा - भ्रालिः | ५|१|१२३॥ आभ्यां कर्मभ्यां पराल्लिहः खश् स्यात् । वहंलिहः, अभ्रंलिहः || १२३|| For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy