________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्।
२४१
एभ्य: साध्वर्थेभ्योऽक: स्यात् । प्रवक: , सरकः , लवकः । साधाविति किम् ? प्रावकः ।।६९।।
आशिष्यकन् ।५।११७०॥ आशिषि गम्यायां धातोरकन् स्यात् । जीवका । आशिषीति किम् ? जीविका ॥७०॥
तिक्कृतौ नाम्नि ।५।१७१॥ आशीविषये संज्ञायां गम्यायां धातोस्तिक् कृतश्च स्युः । शान्तिः , वीरभूः , वर्द्धमानः ।।७१॥
__ कर्मणोऽण् ।५।१७२॥ कर्मण: परात् धातोरण् स्यात् । कुम्भकारः ॥७२।।
शीलि-कामि-भक्ष्याचरीक्षि-क्षमो णः ।५।११७३॥ कर्मण: परेभ्य: एभ्यो ण: स्यात् । धर्मशीला , धर्मकामा , वायुभक्षा , कल्याणाचारा , सुखप्रतीक्षा , बहुक्षमा ।।७३।।
गायोऽनुपसर्गादृक् ।५।११७४॥ कर्मण: परादनुपसर्गाद् गायतेष्टक् स्यात् । वक्रगी। अनुपसर्गादिति किम् ? खरुसंगाय: ।।७४॥
सुरा-सीधोः पिबः ।५।११७५॥ आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक् स्यात् । सुरापी , सीधुपी ॥७५।।
आतो डोऽह्वा-वा-मः ।५।१७६॥ कर्मण: परादनुपसर्गाद् ह्वा-वा-मावर्जादादन्ताद् धातोर्ड: स्यात् । गोदः । अह्वा-वा-म इति किम् ? स्वर्गहायः , तन्तुवाय: , धान्यमायः ॥७६।।
समः ख्यः ।५।११७७॥ कर्मण: परात् संपूर्वात् ख्यो ड: स्यात् । गोसङ्ख्यः ।।७७|| .
दश्वाऽऽङः ।५।११७८॥ कर्मण: परादाङ्पूर्वाद् दाग: ख्यश्च ड: स्यात् । दायाद: , स्त्र्याख्यः ।।७८|| १. सीध्वोः पा१,२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org